SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 7896 A DESCRIPTIVE CATALOGUE OF इम्मडि-अङ्कुशरायक्षितिपतिमहिमा कथं नु विज्ञेयः । यदयं शेषजयत्वं वाग्भिर्गत्वाप्यशेषजययुक्तः ।। ४८ ॥ वाताशी भुजगाधिपश्च कमठो धत्ते सदा कपर स्वाहारात्मविभेदिजातिसहितो घोणी दिशावारणाः । पद्मापाकृतिहेतवोऽद्रिनिचयः शैलं गता वर्तनं प्राप्तेरिम्मडि-अङ्कुशाख्यनृपति पत्ते मुदं मावधूः ॥ ४९ । संशान्ति प्रापयन्तं नविनययुतिमद्वाहिनीनाथगर्व पौलस्त्यभ्रातृजैत्रं बुधविनुतमहादानरीत्याङ्कशेन्द्रम् । विष्ण्वात्मानं सदाङ्घिप्रणतपरिचरलक्ष्मणं प्राहुरेतं सानन्दं लब्धवर्णा सकुशलवसुतानन्दितं रामचन्द्रम् ।। ५० ॥ पूजां विन्दति भोजराजसदृशं सङ्गीतसाहित्ययोः प्रौढस्येम्मडि-अङ्कुशक्षितिपतर्विद्या सभायां परम् । अन्येषां तु मदान्धतायुतदृशां विद्याविहीनात्मनां भूपानामबुधप्रजाहितपटाटोपः परं पूज्यते ।। ५१ ।। नूनं नृसिंहधरणीपतिकैतवेन साक्षादहोबिलपतिर्जननेन युक्तः । नो चेद्धिरण्यकशिपुप्रकटप्रदानप्रौढत्वमद्य भजते कथमेष साधु ॥ ५२ ।। एतादृशानुजवरैर्विनयेन युक्तैः संसेविताङ्घ्रियुगलस्य विशालकीर्तेः । माण्डावनीतलपतेर्महिमान्वितस्य प्रत्यर्थिभूमिपतिमण्डलभेदकस्य ।। ५३॥ आरब्धस्य मयेदानीं तस्याभ्युदयवृद्धये । काव्यस्य सद्रसोपेतो वक्ष्यतेऽयं कथाक्रमः ।। श्रियः पतिः सर्वजगन्महेश्वरो हरिः पुराणः पुरुषोऽब्जजन्मना । धरावनार्थ बहुधार्थितोऽभवत् कुले यदोरानकदुन्दुभेः सुतः ॥ १ ॥ वसन पुरे हारवतीसमाह्वये खलार्दनं शिष्टजनौघरक्षणम् । ततान सद्भक्तजनान् भवाम्बुधेः ररक्ष च स्वावगमोपदेशतः ।। २ । शतक्रतुप्राप्तमनोरथवजा सनन्दना चामृतकल्पिताशना। बभौ पुरे यत्र महीसुरावलिर्यथा बुधालिगुरुशासने स्थिता ॥ ३ ॥ End: इत्थं निशम्य वचनं करुणापगाया दैन्येन युक्तमधिकं करुणाचित्तः। तां सान्त्वयन्मुरहरो निजगाद वाक्यं विख्यादि(तदी)नमनुजावनबद्धदीक्षः ।। For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy