SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THK BANSKRIT MANUHORIPTS, 7898 तीक्ष्णैस्तजगदेकरायविशिखैस्तीक्ष्णैर्विभिन्नात्मतां सम्प्राप्ता यवना रणेषु बहुशो गाढं गताः साध्वसम् । ध्यात्वैवं निजमानसेषु विशदं मुञ्चे युधात्मीयताबुद्ध्यास्मानिति यान्ति ते विशिखां योगान्तराभावतः ॥ २५॥ नूनं तज्जगदेकरायनृपतेर्दानेन भूत्वा जिता सम्प्राप्ता भयमत्ति निर्जरगवी नित्यं तृणानां चयम् । तस्यैश्वर्यभरेण निर्जिततरैश्वर्यो ध्रुवं शङ्करो वैराग्यं समवाप्य तत्र भजते भैक्षाशनं सन्ततम् ॥ २६ ॥ व्यक्तं तज्जगदेकराययशसा यातः पराभूततां लज्जामेत्य तु पुण्डरीकनिचयः सायं द्विरेफावलेः । अन्तर्धारणकैतवेन गरलं खादत्यतो गाहते वह्नि कोकनदाटवीविहरणव्याजेन हंसव्रजः ॥ २७ ॥ विख्यातो जगतापरायनृपतिस्तस्यानुजो योऽभवद्वर्णस्तस्य कथं नु विक्रमभरो यस्य प्रतापामिना । तप्ता यत्प्रतिवासरं जलनिधावद्यापि मज्जत्ययं सायं पश्चिमतां गतेऽस्तमितताव्याजेन भासां ततिः ।। २८ ।। यद्धर्माधिककौशलं पटुतरं प्रत्यर्थिनां संहतो दारिद्याचललब्धवर्णपटलीनष्ठस्य यत्संश्रितम् । धैर्य मेरुगिरे ये च कुमतव्रातस्य चोद्भेदने स श्रीमान् जयति स्म विश्रुततरो राणाङ्कुशक्ष्माविभुः ॥ २९ ॥ श्रीराणाङ्कशरायभूपतिमणेर्वर्ण्यः कथं विक्रमः स्थित्वा यत्पुटभेदनेषु नितरां विद्धास्तदीयैलैः । सम्प्राप्ता गहनान्तराणि गरलौपम्यं हृदा जानता मन्यन्ते नगराहयानुचिततां स्मैषान्तर(प्रत्यर्थिनः)क्षोणिपाः ॥ ३० ॥ तस्मिन् शासति संहृतारिपटले राज्यं समस्तावनीनाथालीप्रणताङ्घ्रिपद्मयुगले नैवास्य योधावलिः । शास्त्रादुक्तिरभूत्परं तु विदुषां नैतत्पुराणां वने सालं वश्यकता न तस्य गणकेष्वेवास्य सङ्ख्यावरः ॥ ३१ ॥ For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy