SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 7888 A DBSORIPTIVB CATALOGUE OF (मू)-अवनतदेवं देहं पुंसः परमस्य सम्पदे वन्देऽहम् । यं पदमम्बुध्यन्ते यतयो यत्तत्त्वमुत्तमं बुध्यन्ते ।। अवनतदेवं देहं पुंसः-परमस्य-सम्पदे-वन्दे-अहं यं-पदम्-अम्बुध्यन्ते-यतयःतत्तत्वम्-उत्तमं बुध्यन्ते ।। अहमिति कविरात्मानं निर्दिशति ; वासुदेवनामाहमित्यर्थः । परमस्य विशिष्टस्य, यहा परा उत्कृष्टा मा श्रीयस्येति विग्रहः । तस्य पुंसः पुरुषस्य श्रीकृष्णाख्यस्य देहं शरीरं वन्दे इत्यन्वयः । वन्दनप्रयोजनमाह, सम्पद इति । सम्पत् समृद्धिस्तत्सिद्ध्यर्थ वागर्थयोः समृद्धिरेवेह सम्पत् विवक्षिता, योग्यतरत्वात् । देहं विशिनष्टि-अवनतेति । अवनताः प्रणताः देवा यस्येति विग्रहः ; तम् । देवशब्दः प्यादीनामप्युपलक्षकः । सततं ब्रह्मादिभिर्देवैः नारदादिभिर्मुनिमुख्यैश्च नमस्कृतमित्यर्थः । एवं पुराणार्थस्मरणसिद्ध्यर्थ व्यासं प्राणंसीत् । सम्प्रति स्वकृतकाव्यं गुणवदपि मत्सरग्रस्ततया केचिन्न गृह्णन्ति इति राजवल्लभतयापि स्वकृतकाव्य. प्रचयसिद्ध्यर्थ तत्कालवर्तिनं राजानं स्तौति-जयतीति । (मू)-जयति सुधामा रामः क्षितिपालः काव्यवीरुधामारामः । दधदिभमस्तकलीलामंसेन बिभर्ति योऽयमस्तकलीलाम् ॥ जयति-सुधामा-रामः-क्षितिपाल:-काव्यवीरुधाम् आरामः दधत्-इभमस्तकलीलाम्-अंसेन-बिभर्ति-यः-अयम्-अस्तकलीलाम् ।। रामः रामाख्यः क्षितिपालो राजा जयति वीर्यशौर्यादिगुणशालितया सकलभूपालानतिशय्य वर्तत इत्यर्थः । अथ यदर्थमिष्टदेवतानमस्कारादिकं कृतं तदारभते ... अथेति । अथ षट्सु कुमारेषु भात्रा व्यापादितेषु सुकुमारेषु । सुतमेकं सद्वेषं प्रासूयत देवकी सकंसद्वेषम् ॥ अथ-षट्सु-कुमारेषु भ्रात्रा-व्यापादितेषु-सुकुमारेषु-सुतम्-एक-सद्वेष-प्रासूयतदेवकी-सकंसद्वेषम् । अथशब्दः कथारम्भार्थः । देवकी वसुदेवभार्या षट्स् षट्सङ्ख्यातेषु कीर्तिमप्रभृतिषु च कुमारेषु स्वपुत्रेषु ।। Colophon: इतीशानसूनुनीलकण्ठपूज्यपादविरचितायां शौरिकथाव्याख्यायां तत्त्वप्रकाशिकायां प्रथम आश्वासः समाप्तः ।। For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy