SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 7884 Beginning: www.kobatirth.org A DESCRIPTIVE CATALOGUE OF Acharya Shri Kailassagarsuri Gyanmandir वन्दे मदनगोपालं विद्यातत्वार्थदायकम् । सर्वविघ्नापहर्तारं दातारं सर्वसम्पदाम् ॥ १ ॥ आसील्लाभपुराभिधाननगरे रुद्रान्वयी काश्यपो ज्येष्ठः सर्वकलाकलापविदुषां ज्येष्ठाभिधानो द्विजः । आराद्धत्रिपुरापुरारिचरणाम्भोजप्रसादोल्लसत्सम्पत्प्रीति(णि)तभूसुरः सुरपतिस्पर्धा समिद्धादरः । २ ॥ तस्याभूत्तनयः प्रभूतविनयः सद्धर्मकर्मप्रियः सक्तूमिश्र इति प्रसिद्धमहिमा भक्तौ प्रसक्तः सताम् || येनाराधि पुरा मुरारिनगरे विष्णुः सहृष्टं चिरा न प्राप स विश्वभूषणमणि श्रीविष्णुदासं सुतम् || ३ || वेदाचारपु ( प ) र : पुराणचतुरः सत्सम्प्रदायाग्रणीः शश्वद्ब्राह्मणदेवसेवनरतः प्राप्तातिथेयप्रथः ॥ ज्योतिश्चक्र विचारबन्धुरमतिः कालज्ञचूडामणिः सर्वोर्वीशकिरीटकोटिकषणोन्मीलन्नखेन्दुद्युतिः ॥ ४ ॥ तस्यात्मजो हरिहराचनलब्धबुद्धिविद्याविनोदमुदितो हरिदासमिश्रः । प्रासूत यं सुचरिता किल मूलदेवी द्वैपायनाख्यमिव सत्यवती मुनीन्द्रम् || १ || विष्णुदास तनूजेन हरिदासेन धीमता । विरच्यते यथाबुद्धि माघकाव्यार्थदीपिका ॥ ६ ॥ निरूप्य लिखितं सत्यं सज्जनैः सुविचारितम् । नमस्कुर्मः खला युष्मांस्तूष्णीमत्र करिष्यथ ॥ ७ ॥ योऽमूं टीकां समालोक्यं स्वपाण्डित्यसमीहया । मन्नामाच्छादनं कुर्यात्सन्ततिस्तस्य नश्यति ॥ ८ ॥ “ सर्गबन्धो महाकाव्यमुच्यते तस्य लक्षणम् । आशीर्नमस्क्रिया वस्तुनिर्देशो वापि तन्मुखम् !! इति काव्यदर्पणेोक्तत्वादवश्यं त्रिप्वेकेन भवितव्यमित्यत्र काव्यकर्ता वस्तुनिर्देशमुद्दिष्टवान् । सदाश्रयस्य श्रीकृष्णस्य सङ्कीर्तनाशयमधिकृत्य काव्यं "" For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy