SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 7838 (मू )-वाचं वो रचयतु सर्वदान्तरङ्गे गाङ्गेयः स रसनयोदयां दधानः। सत्याप्तो बुधकुलमालिबन्धुरोऽजः श्रीरामः स्तुतगुरुमाननाब्जहंसः ।। वाचमिति। उदयाम् उद्भूताम् , (तः अयः) शुभावहविधिर्यस्याः सा तां (गां) वाणी रसनया जिह्वया दधानः, सत्याप्तः सत्यलोकाप्तः बुधकुलमौलिषु विद्वद्गणावतंसेषु, बन्धुरः रम्यः, श्रीरामः चारुः, स्तुतौ गुरुमाननौ गुरुसत्कारौ अब्जहंसौ यस्य सः । अब्ज(ज): ब्रह्मा, वः युप्माकम् , अन्तरङ्गे हृदि, सर्वदा वाचं रचयतु ; वासयत्वित्यर्थः । (गे)यः (गीतो) येन वै (वेदः) स अज इत्यर्थः। अयश्शुभावहो विधिः, रसो रागे गुणे खले। लिप्तो लब्धेष्टयोस्सत्यं शपथेऽपि विधेः पुरे । बुधो . . . सुरे रम्ये। सन्तत्याल्यो गृहे कुलम् । केशवे मकुटे मौलिः । रामः श्यामेऽपि मञ्जले । माननौ सत्कृतौ। अब्जं पद्मे ना . . . . चन्द्रयोः । हंसो विष्णो विहङ्गेऽर्के हयेऽपि गुरुरुत्तमे ।। अन्यत्र----सरसनयोदयां गां भुवं दधानः, सत्यायाः कोसलराजपुत्र्याः सत्यभामायाः आप्तः इष्टः बन्धुरः बन्धुत्वं त्रा(रा)तीति बन्धुरः रा दान इति धातोरोतोऽनुपसर्गे कः। बुधकुलमौलिः इन्द्रः बन्धुरो यस्य सः इन्द्रानुज इत्यर्थः । श्रिया रामः स्तुतगुरोमाया आननाब्जस्य मुखपङ्कजस्य हंसः सूर्यः । अजः विष्णुः वाचं रचयतु। अजः शम्भौ विधौ विष्णौ कामे छागे रघोः सुते। अन्यत्र-गाङ्गे गङ्गासम्बन्धिनि तरङ्गे ऊर्मी सरसनयः सरागतउ(गतिः) दयां दधानः सत्यायाः दाक्षायण्याः, आप्तः बुधकुलः, वुधसन्तानः, चन्द्र एव मौलि: मकुटं तेन रम्यः श्रिया विशेषेण रामः नीलकण्ठ इत्यर्थः । स्तुतः गौः वृषभो यस्य स्तुतगुः। गोस्त्रियोरुपसर्जनस्येति हस्वः । उमाया आननाब्जस्य हंसः अजः ईश्वरः वाचं रचयतु। सत्या दाक्षायणी साध्वी इति निघण्टुः । श्रीविषे रचनालक्ष्मीबिल्वभानि(धी)विभूतिषु । अन्यत्र-सति नक्षत्रविषये आप्तः कृत्तिकाहाद इत्यर्थः । बुधकुलमौलेरिन्द्रस्य बन्धुः जामाता, ओजश्श्रिया तेजस्सम्पदा रामः स्तुतो गौः स्वर्गो येन सः। उमाया आननाब्जस्य हंसः तदानन्द इत्यर्थः। गाङ्गेयः स्कन्दः वाचं रचयतु । अन्यत्समम् । सन् सत्ये विदुषि श्रेष्ठे साधौ त्रिषु सदृक्षके। गौस्स्वर्गे ना षे रश्मौ स्त्री गोऽद्रिषु च भूमिषु। अन्तरङ्गं मनस्योजो बले शाब्दे गुणे त्वि(त्रि)। गाङ्गेयं काञ्चने तु स्यात् गाङ्गेय स्कन्धभीष्मयोः । गां भुवं सरसनयोदयां दधानः कुर्वन् सत्याप्तः सत्ययुक्तः बुधानां कुं भुवं लातीति बुधकुलः । ला दान इति 692-A For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy