SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 7810 A DESCRIPTIVE CATALOGUE OF भावाद्यलङ्कतिरसध्वनिभासमानं धर्मार्थमोक्षफलभारतबद्धसख्यम् । द्राक्षातिशायिरसवद्यमकप्रभेदं श्रीवासुदेवकलितं भुवि काव्यमिन्धे ।। गाम्भीर्यास्पदवाच्यवाचकतया व्याख्यापथागोचरं काव्यं मद्धिषणा तु मान्द्यविभवप्राचुर्यपाथोनिधिः । व्याख्यातुं प्रयते तथापि तदिदं हा हन्त हन्ताधुना साध्यासाध्यविवेकशून्यहृदयः सर्वत्र संनयति ॥ कृतेन विद्वत्कलितेन नूनं व्याख्या मदीया बहुमानपात्रम् । रन्ध्रेण किं वा कृतिना कृतेन न जायते दिव्यमणी गुणाढ्या ॥ व्याख्या मदीया नितरामहृद्याप्याद्या भवेत्रीतिकरी भवित्री। अव्यक्तभाषाकलनं प्रकामं शिशोर्मनोहारि न किं गुणानाम् ॥ पदच्छेदः पदार्थोक्तिः विग्रहो वाक्ययोजना । आक्षेपोक्तेः समाधानं व्याख्यानं पञ्चलक्षणम् ॥ इत्यभियुक्ताः । अस्यान्वयमुखनैव पदानां विर्ति परम् । विधत्ते शोकनाथोऽयं बालव्युत्पत्तिकारिणीम् ॥ अथ कथं काव्यमुपादेयं येन तत्र प्रवृत्तिः सफला स्यात् । काव्यमुपादेयं न भवतीत्युच्यते। तेन तावन्मृषा(दृषि)प्रणीतत्वाभावादनुपादेयत्वम् । वाल्मीकिबोधायनप्रमुखैमहर्षिभिरपि काव्यस्य प्रगयनात् । नापि पुरुषप्रणीतत्वात् , शास्त्रनिबन्धनानामपि तथात्वेनानुपादेयत्वप्रसङ्गात् । नापि काव्यत्वादनुपादेयत्वम् । तस्मात् दृष्टादृष्टफलतया काव्यमुपादेयमेव । ततश्च काव्यकरणं सफलमेवेति निश्चित्य वासुदेवनामा केरलीयः कविः कीर्तिकामनयैव काव्यकरणे प्रवृत्तः । कीर्तिमदभ्रान्तेनेति वक्ष्यमाणपद्येन स्वकाव्यस्य कीर्तिरेव प्रयोजनमिति वक्ष्यन् सन् "आशीर्नमस्क्रिया वस्तुनिर्देशो वापि तन्मुख" मित्याचार्यदण्डिवचनादादावाशिषमाह । मूल-प्रदिश( . . . . )परमदमा यम् ॥ व्या-प्रदिशत्विति । परमदमाः परमः उत्तमः दमः इन्द्रियनिग्रहः तादृशाः । परमः शस्त उत्कृष्टे इति निगमः । दम इन्द्रियनिग्रह इति केशवः । For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy