SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 7798 A DESCRIPTIVE CATALOGUE OF व्या ॥ पद्माक्षमासमेतं श्रीभूमिभ्यां सहतम् । प्रसन्नतोयदगतिस्वभावस्थम प्रसन्नतोयदस्येव गतिर्यस्याः सा प्रसन्नतोयदगतिः ; स्वस्या आत्मीयायाः भायाः कान्त्याः अवस्था प्रसन्नतोयदगतिस्वभावस्था यस्य स तथोक्तः तमेनम् । बुद्धे भविष्यसि श्रितपराङ्कुशा ग्रस्यमानमाया हि । यायास्तत्पदभक्तिं परां कुशाग्रस्य मानमायाहि ॥ भूयान्नमस्कृतिरसावरणीया यामुनार्येण । समनुस्रियास्म च गतिं वरणीया यामुनार्येण ॥ कुर्मो नमः सशिरसा वाचा रामानुजायेह । यः सुचरितैरतिययावाचारा मानुजा ये ह ॥ सर्वस्मिन् कविलोकेऽधीव प्राचेतसाद्यास्तु । सेव्या तद्गीरीश्वरधीवप्रा चेतसाद्यास्तु ।। लभतां रामायणमिह महनिष्यन्दं भजन्मानम् । यज्ज्ञाने कवयो जवमहनिष्यन् दम्भजन्मानम् ।। कः किल लोकेऽत्र शुभावहो महाभारतादरादन्यः । यत्परिचितयो भूमावहो महाभा रता दरादन्यः । * नद्यां भवतापार्ताः पराङ्कुशलसगिरिप्रभूतायाम् । अलमामहि विश्रान्ति परां कुशलसगिरि प्रभूतायाम् ।। या श्रुतिरिह तमसां सप्रणवा महतां तराय तया । संवेद्यमाद्यपुरुषं प्रणवाम हतान्तरायतया ॥ अखिलस्य योऽस्य जगतो योनिर्माता च देवकी यस्य । शर्मण इहावतारैर्यो निर्माता च देवकीयस्य ॥ For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy