SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 7799 स श्रीवत्साङ्कः संयस्य श्रीरङ्गनाथशेषस्वः । इदमकृताश्रित्य हरिं यस्य श्रीरङ्गनाथ शेषः स्वः ।। पितरं रामाहं गुरुमाङ्गीरसमञ्जसानूनम् । उपसन्नं नोपेयान्मां गीरसमञ्जसा नूनम् ॥ व्या-तदेवमारभ्येदं काव्यमिदानीमारभ्यते । पूर्व किल भूमिरियं सदा नवानीतिसाध्वसम्बाधम् । तिष्ठन्त्यथाभिपेदे सदानवानीतिसाध्वसं बाधम् ।। व्या-किलशब्द ऐतिह्ये । पूर्व कंसादीनामुत्पत्तेः प्राक् सदा सततं भूमिरियम् । नवा असुराद्युपद्रवरहितत्वेनाभिनवरूपा, शान्तिमती सती । अनीति उपद्रवरहितम् । End: वर्षाण्यनवग्रहगतिजोषणमायन्तु सुजनानाम् । वर्षाण्यनवग्रहगतिजोषणमायन्तु सुजनानाम् ।। एवमभिलषितकंसवधावधौ काव्येऽस्मिन् समापनीयेनाशीर्वादेन समापयितुमारभ्यते । वर्षाणि वृष्टयः । मू-परमोऽक्षरो महीयान्नागाध्यासी स मे तु नरकान्तः । परमोक्षरो महीयान् नागाध्यासी समेतु नरकान्तः ।। परमः पूज्य: अक्षरः क्षरणरहितः, अविकार इत्यर्थः । क्षरतेः पचाद्यजन्तस्य नसमासः । महीयान् महत्तरः । नागाध्यासी नागराजमनन्ताख्यमासीनः सः उक्तविशेषणविशिष्टः मे मम । तुशब्दो विशेषं द्योतयति । नरकान्तः नरकाख्यस्यासुरस्यान्तभूतः परमोक्षरः परमुत्कृष्टं मोक्षं स्वानुभवरूपं प्रयच्छन् । Colophon: इति हरितकुलतिलकश्रीराममिथसोमसुत्सूनोः श्रीरङ्गराजदिव्याज्ञालब्धश्रीपराशरापरनामधेयस्य श्रीवत्साङ्कस्य कृतौ यमकरत्नाकरे महाकाव्ये तत्कृती यमकरत्नाकरव्याख्याने चोभयोरपि षोडशाश्वासः ॥ 590 For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy