SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 7796 A DESORIPTIVE CATALOGUE OF यद्राजधान्यामनिशं कद्रूसुतविभूषणः । सर्वत्र कुशलं कुर्वन् वर्वर्ति परमेश्वरः ॥ भ्रातापि यस्या भूलोकत्राता नातेनिह (प्सितस्सताम् । निर्माति नित्यमादित्यपदा(महाः) शर्माणि धर्मवित् ।। ईदृश्यपि गुणैः सर्वदुष्यं दधती महत् । राजतेजोमयी लोके राजते यत्कनीयसी ।। श्रावं श्रावं कथा विष्णोर्मोदं मोदं महीयसी । आज्ञाविधेयसामन्ता राज्ञी या वर्तते सदा ॥ धव तस्याः कलाधरास्यायाः प्रीत्यै माध्वीगिरा मया । सक्षिप्ता साक्षरप्रासा क्रियन्त(ते) भगवत्कथा । यदि सन्ति गुणाः केचिदस्यां गृह्णन्तु तान् बुधाः । न सन्ति चेद्धारकथाः सन्त(न्तु) तत्कणेपारणाः ।। न विद्याविभवेनेदं न कवित्वेन भूयसा। रचितं वैष्णवी भक्तिर्मुखरीकुरुतेऽथ मा । देशिकस्य कटाक्षेण राज्ञीवाक्याङ्कशेन च । भक्त्या च कृष्ण प्रारब्ध बहुभिः साधनमेया ।। अविघ्नं विघ्नराजो मे वाणी शब्दार्थकौशलम् । प्रारब्धान्तगतिं कृष्णो विदध्यान्मुदितास्त्रयः ॥ अभूदपूर्वसौराज्यं (ज्य)मधुरा मधुरा गुणैः । अपरीकृतपाकारिनगरी नगरी भुवि ।। सद्गृणालिनिकेतानां न्यकृ(क)तामरवैरिणाम् । धरातलभुजामासीत्पुरी सा यदुजन्मनाम् ।। उग्रसेनार्दितारातिवर्गदुर्गपरम्परः ।। उग्रसेनोऽवसत्तस्यामग्रणीर्यदुभूभुजाम् ।। अनुजन्मा च तस्यासीन्मनुजानामधीशितुः । देवकार्यपरो नित्यं देवका नाम धार्मिकः ॥ उग्रसेनादभूत्कंसः शक्रवैरिसखः सुतः । अन्यस्य जज्ञे कन्यापि धन्या यां देवकी विदुः ।। अथ शूरसुतो नाना वसुदेवो वसूपमः । देवकीमुपयेमे तां देवकन्यासमाकृतिम् ॥ Colophon : इति यदुनाथचरिते भागवतसङ्ग्रहे प्रथमः सर्गः ।। For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy