SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 7790 A DESCRIPTIVE CATALOGUE OF अभून्नृपो विबुधसखः परन्तपः श्रुतान्वितो दशरथ इत्युदाहृतः ! गुणैर्वरं भुवनहितच्छलेन यं सनातनः पितरमुपागमत्स्वयम् ॥ जयमङ्गला अभूदिति भूतसामान्ये लुङ् ; भूत इत्यर्थः । अन्यथा राज्ञश्चिरातीतत्वात् कवेः परोक्षत्वाच्च लिट् स्यात् । गातिस्थेति सिचो लुक् । भूसुवोस्तिङीति गुणप्रतिषेधः । यं पितरं जनकमङ्गीकृतवान् सोऽभूदिति योज्यम् । स्वयमित्यात्मना ; न कर्मणाऽन्येन वा प्रेरित इत्यर्थः । मुग्धबोधिनी अभूदिति । दशरथ इति नाम्ना उदाहृतः ख्यातो नृपो राजा अभूत् । स कथंभूतः विबुधसखः । विबुधानां देवानां सखा मित्रम् । अथवा विबुधस्ये. न्द्रस्य सखा ; सामान्यदेवतावाचिनोऽपि विबुधशब्दस्य विशेषपरत्वात्प्राधान्याद्वा इन्द्रवाचित्वम् । एतेन विजयित्वं दर्शितम् । End: इषुमति रघुसिंहे दन्दशूकान् जिघांसौ धनुररिभिरसह्यं मुष्टिपीडं दधाने । व्रजति पुरतरुण्यो बद्धचित्राङ्गलित्रे कथमपि गुरुशोकान्मा रुदन्माङ्गलिक्यः ॥ ज-ला इषुमती(ति)। रघुसिंहे रामे । रघुषु रघुवंशभवेषु सिंह इव शौर्यादियोगात् । ब्रजति सति । इषुमति सनिषङ्गे ; प्रशंसायां मतुप् ।। रामो गत इति गुरुः शोको यासां ताः । कथमपि नारुदन न रुदितवत्यः । रुदेरिरितो वेति च्लेरङ् । यतो माङ्गलिक्यः मङ्गलप्रयोजनाः । तदस्य प्रयोजनमिति ठञ् । टिड्डाणनित्यादिना ङीप् । मु-नी इषुमतीत्यादि । रघुसिंहे रघुश्रेष्ठे रामे । व्रजति सति । तद्विच्छेदात् गुरुशोकात्. 'गुरुशोका नारुदन् इति पाठान्तरम्. For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy