SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 7789 लक्ष्यं लक्षणं चोभयमेकत्र विदुषः प्रदर्शयितुं श्रीस्वामिसूनुः कविर्भट्टिनामा रामकथाश्रयमहाकाव्यं चकार । तथाहि-अस्योपनिबन्धनं कविना द्विधा कृतम् । एकं लक्षणसूचकैः प्रकीर्णकाधिकारप्रसन्नतिङन्तकाण्डैश्चतुर्भिः । द्वितीयं लक्ष्यसूचकैः रामसंभवादिभिः द्वाविंशत्या सगैः । तत्र लक्षणं द्विविधम् शब्दलक्षणं काव्यलक्षणं च । तत्र प्रथमस्य प्रकीर्णकाधिकारतिङन्तकाण्डानि । द्वितीयस्य प्रसन्नकाण्डम् । यत्रोच्चावचेन बहूनां लक्षणानां प्रकरणं तत् प्रकीर्णकाण्डम् । तदेवात्र प्रथममुक्तम् , तस्य व्यापित्वात् । उत्तरत्रापि द्रव्यमिति प्रदर्शनार्थम् । अत्र यद्यप्यादौ कविना देवतानमस्कारो न कृतः । तथापीष्टदेवतासङ्कीर्तनमपि विघ्नोपशमहेतुर्भवतीति मन्यमान आह---अभूदित्यादि । तस्य हीष्टदेवता सनातनो विष्णुः । स चादौ कीर्तितः । तत्प्रतिबन्धना चेयं कथेति प्रबन्धेनैवात्र सङ्कीर्तनम् , रामायणवत् । तत्र विष्णोर्यस्मिन् काले जगत्कार्यवशादवतारः कृतः तदेव प्रथमं दर्शयति । Beginning of the Mugdhabūdhini: नत्या शङ्करमम्बष्ठगौराङ्गंमल्लिकात्मजः । भटिटीकां प्रकुरुते भरतो मुग्धबोधिनीम् ।। विहिताः पाणिनीयाद्यैः पठनीयादिबोधकाः । भट्टिटीका मम त्वेष मुग्धबोधार्थ उद्यमः ॥ कविकल्पद्रुमोक्तानां धातूनामनुबन्धतः । स्पष्टानि यानि कार्याणि ततो बोध्यानि तानि तु || नातिस्पष्टानि कार्याणि ग्रन्थगौरवभीतितः । वाच्यान्यत्र न चाप्यर्था अतिविस्तृतवाग्भवाः ॥ भर्तृहरिनामकविः श्रीरामकथाश्रयं महाकाव्यं चकार । अत्र सर्गबन्धो लक्ष्यसूचनाय, काण्डबन्धो लक्षणसूचनाय । अत्र सर्गाः द्वाविंशतिः । प्रकी र्णाधिकारप्रसन्नतिङन्तकाण्डानि चत्वारि । शब्दलक्षणकाव्यलक्षणभेदात् लक्षणं द्विविधम् । तत्र काण्डत्रये शब्दलक्षणं, प्रसन्नकाण्डे काव्यलक्षणम् । आदौ बहुलक्षणप्रदर्शनं प्रकीर्णकाण्डव्यापकत्वात् दर्शितम् । महाकाव्यस्यादावाशीनमस्क्रिया वस्तुनिर्देशो वा कर्तव्य इति संप्रदायानुरोधाद्वस्तुनिर्देशं कुर्वन्नेवेष्टदेवतास्मरणात्मकं मङ्गलमप्यादौ प्रकाशयति For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy