________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SANSKRIT MANUSCRIPTS.
3995
The following subjects are treated of herein. १. गायत्रीखरूपकथनम्. ५. नानाप्रयोगविधिः. २. न्यासध्यानसन्ध्याविधिः. ६. पूर्णाभिषेकविधिः. ३. न्यासध्यानसन्ध्याविधिः. ७. सर्वोत्तमविधियोगः.
४. जपहोमप्रयोगविधिः. ८. ध्यानविधियोगः. Beginning :
अपरं मेरुसङ्काशं कैलासशिखरप्रभम् । सिद्धविद्याधरगणैः ऋषिसङ्घरसमावृतम् ॥ कुशपुष्पपलाशायैस्सर्वतो गन्धमादने । तन्मध्ये तं सुखासीनं तपस्स्वाध्यायतत्परम् ॥ अगस्त्यं परिपप्रच्छ नारदस्सर्वतत्त्ववित् । भगवन्मुनिशार्दूल सर्ववेदविदां वर ॥ गायत्री परमां विद्यां श्रोतुमिच्छामि तत्परः । नारदस्य वचः श्रुत्वा प्रयतमासी(तात्म)न्महामुने ॥ साधु पृष्टं त्वया ब्रह्मन् समाहितमनाः शृणु । यथाश्रुतं मया लब्धं ब्रह्मलोके पितामहात् ॥ तथैव वर्धते ब्रह्मन् समाहितमनाः शृणु । ततो गायत्रिमाहात्म्यमङ्गन्याससमन्वितम् ॥ शक्तिबीजं च वर्ण च तत्त्वभेदमृषि तथा । देवताक्षरभेदं च ध्यानं कालत्रयात्मकम् ॥ पुरश्चर्याविधि तद्वद्धोमकर्मविधि तथा । विनियोगं ततः पश्चात्सर्व वक्ष्येऽधुना स्त(त)था ॥
End:
दक्षिणे तु चतुर्हस्तं वामे च इतरत्रयम् । शक्तिमन्नं तथा चैव सुक्खुवौ दक्षिणे करे ।
For Private and Personal Use Only