SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSORIPT'S. 4019 वेदवेदाङतत्त्वज्ञमात्मज्ञानपरायणम् । वेदार्थवेदिनं विप्रं वासुदेवपरायणम् ।। विनयेनोपसङम्य काश्यपो वदतां वरः । प्रणम्य शिरसा भूमौ पप्रच्छेदं जगद्वितम् ॥ ऋग्यजुस्सामादिवेदविज्ञानलक्षणम् । कपिञ्जल महाप्राज्ञ श्रुतं सर्व मयानघ । न श्रुतं पञ्चरात्राख्यं शास्त्रं विष्णुमुखोद्गतम् । श्रोतुमिच्छामि विप्रेन्द्र साकारोपासनं च यत् ।। तच्छास्त्रं विस्तरेणैव वक्तुमर्हसि मेऽनघ । कपिञ्जल: साधु साधु महाप्राज्ञ काश्यप द्विजसत्तम ॥ यत्पृष्टं तु त्वयेदानीं तच्छृणुष्व वदामि ते । शतोत्तराष्टभेदेन वासुदेवमुखान्मुने ॥ पूर्व श्रुतानि शास्त्राणि ब्रह्मणा शङ्करेण च । तानि तन्त्राण्यशेषाणि सकाशाद्ब्रह्मणः पुनः ॥ श्रुतानि तं समागम्य मार्कण्डेयेन धीमता । मार्कण्डेयान्मया तानि तन्त्राणि द्विजसत्तम ॥ शतोत्तराष्टभेदेन श्रुतान्यत्र पुरा तथा । अष्टोत्तरशतेप्वेषु तन्त्रेषु सकलेषु च ॥ सारमुद्धृत्य वक्ष्यामि शृणुष्वैकमना(नोऽ)धुना । काश्यपः कति भेदास्तु तन्त्राणां नामधेयानि कानि वा ॥ वक्तुमर्हसि विप्रेन्द्र यदि तुष्टोऽसि मे प्रभो । For Private and Personal Use Only
SR No.020196
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 11
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages430
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy