________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
3658
A DESORIPTIVE CATALOGUE OF
Beginning:
शेषाशेषाय निर्दोषगुणभूषाय शेषिणे।
निर्मलानन्दनिर्माणधर्मिणे ब्रह्मणे नमः ।। इह केचिद्देवमनुष्याणां मुक्तानां परस्परमानन्दे तारतम्यमाचक्षते । तद्धि विधानतारतम्यायत्तं दुरपह्नवम् । मुक्तिसाधनं हि ज्ञानम् । तत्तारतम्यं लोकत एवावगतम् । देवानामृषीणां च बहुतरतपश्चर्याप्रतिपादनपुराणावगतं च प्रयत्नाधिक्यं च फलाधिक्यगमकम् । अन्यथा प्रयत्नानर्थक्यप्रसङ्गात् . . . . . . . . . . . .
अतो निर्दोषत्वमात्रेण तत्साम्यमुपपन्नमिति न तेनानन्दसाम्यसिद्धिरिति । अत्र ब्रूमः- अस्तु साधनतारतम्यम् ; न तत्स्वाभाविकम् ; अपि तु कर्मकृतमिति । End:
चतुर्वेदशिखावचनं तु मुक्तपरतन्त्रतद्वाचकपदाभावाच्छतानन्दपदं बद्ध एव चतुर्मुखे प्रसिद्धेश्व तत्परमेव । पौराणिकवचनानि तूक्तिविरोधात्परमसाम्यश्रुतिविरोधाच्च सालोक्यादिमुक्तिपराणि वा जीवन्मुक्तपराण्युपासनकालीनानुभवपराणि वा नेयानीत्यन्यत्र विस्तरः ॥ Colophon:
इति श्रीशठमर्षणकुलतिलकश्रीनिसाचार्यविरचिते(तं) तारतम्यखण्डनं नाम प्रकरणं सम्पूर्णम् ॥
No. 4870. आनन्दतारतम्यखण्डनम्.
ANANDATARATAMYAKHANDANAM. Pagos, 19. Lines, 12 on a page.
Begins on fol. 15a of the MS. described under No. 4574, Complete. Same work as the above.
For Private and Personal Use Only