SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 3633 मध्वहनूमद्भीमाख्यरूपत्रयेण विशेषत उपास्यादिरूपत्रयं नमन् गुरूंश्च प्रणमति-व्यासमिति । चिकीर्षितप्रतिज्ञां करोति । श्रीमध्वदेवेति । कियन्ति कानिचित् । अल्पानीत्यर्यः । तत्त्वनिरूपणाय प्रस्तावयति --जयतीति । अनेन तत्त्वं द्विविधम् ---स्वतन्त्रमस्वतन्त्र चेत्युक्तं भवति । स्वतन्त्रमस्वतन्त्रञ्चेत्यादि तत्त्वसङ्ख्यानवचनार्थानुवादोऽयम् । End: श्रीमध्वनिर्जरवरार्यगुरोः श्रीमदानन्दतीर्थाख्यानां शर्वादिसर्वगीर्वाणमहाचार्यवर्याणां गुरवे । सत्तत्त्वेति । सन्ति निर्दुष्टानि अबाधितानि परापरतत्त्वान्येव रत्नानि । तेषां निकराः समूहाश्च तेषु उत्कराः उद्गतप्रकाशा इति विशेषणस्य परनिपातः । तेषां मालिकायामित्यर्थः । श्रीमध्वशास्त्रेति । यद्यपि श्रीमध्वाचार्यवर्धकृतशास्त्रमहासमुद्रे देवतादुरधिगम्यान्यनन्तानि तत्त्वानि प्रतिपादितानि । अहंतु नानादोषकलुषिततया अत्यल्पाधिकारित्वाचाल्पचित्तः । अतः स्वल्पतमान्येव सामान्यतो मयावगतानि तत्त्वानि । तत्समीकरणे च चित्तकौशल्यं नास्ति । एवमल्पमेधसाकुशलेनापि रचिता सत्तत्त्वरत्नमाला असमीचीनापि न भगवदुपेक्षा. विषया भवेत् । किन्तु परमकारुणिकतया सह रमया भगवान्नारायणो दिव्यमाणिक्यमालामिव इमामपि महाचकसूत्रप्रोक्तामपि तत्त्वमालां स्वहृदये निधाय मह्यं प्रसीदतामित्याशयः । नैवं समर्पणेऽपि मम स्वातत्रयम् । अपि तु कर्ता अर्पयिता भोक्ता च स्वयमेव । तथापि केवलं कृपावशेनैव प्रीयतामित्याशयवानाह—स्थित्वेति । मयि स्थितेषु तत्त्वाभिमानिषु ब्रह्मादिदेवेषु स्थित्वा । महालक्ष्मीमुखाम्भोजमध्वास्वादनमानसः । नारायणस्सदा पातु दीनं मां दीनवत्सलः ।। काहं सुमन्दधिषणः कलुषी व चैतत् शास्त्रं शिवादिविवुधरधिगम्यमञ्जः । वैयात्यमद्भुतमिदं यदहं प्रवृत्तः तत्क्षम्यतां सुरगणैरपराधजातम् ॥ . For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy