SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3631 THE SANSKRIT MANUSCRIPTS. .प्राक्प्रध्वंससदात्वेन विविधोऽभाव इष्यते । चेतनोऽचेतनश्चेति भावश्च द्विविधः स्मृतः ॥ अचेतनं त्रिधा प्रोक्तं नित्यञ्चानित्यमेव च । नित्यानित्यश्चेति नित्यं सर्वव्याप्तमुदाहृतम् ॥ नित्यास्तु वेदवर्णाश्च परमाकाश एव च । पञ्चाशता हि वर्णानां क्रमाद्योगैः परस्परम् ।। अनन्तानाञ्च वेदानां स्थितिरित्यतिकौतुकम् । ईश्वराचिन्त्यशक्तचैव घटना केवलं भवेत् ।। मूलवेदऋगादिश्च तथावान्तर एव च । शाखोपशाखाभेदेन वेदोऽनेकविधो मतः ॥ End: अनन्तानन्तरूपेणं गायन् ध्यायन् सदा हरिम् । अमन्दानन्दसन्दोहो रमते हर्यनुग्रहात् ।। एवं विमुक्तास्सर्वेऽपि पुनरावृत्तिवर्जिताः । ध्यायन्तः कमलानाथं मोदन्ति च रमन्ति च ।। इत्थं ह्यनन्तमुक्ताश्च मुक्तिमेष्यन्त्यनन्तकाः । यस्य प्रसादमात्रेण स हरिमें प्रसीदतु ॥ अनन्तानन्तकल्याणपरिपूर्णगुणात्मकः । कमलारमणो नित्यं पातु मां करुणार्णवः ।। शास्त्राब्धिद्धिपूर्णेन्दुः गीर्वाणगणसेवितः । वाणीप्राणप्रियः पातु मध्वाख्यप्राणनायकः ।। श्रीविष्णुतीर्थाम्बुजनामतीर्थत्रिविक्रमार्यादिमहानुभावान् । भजे सुपूर्णप्रमितिप्रसादप्राप्तप्रसादप्रतिभाप्रगल्भान् ॥ दुर्वादिमत्तेभमहाङ्कुशं लसच्छ्रीमध्वशास्राम्बुजदिव्यसंह(हंस)म् । गुणाब्धिमज्ञानतमोनि(नु)देशं जयार्यमीडे सुजनाब्धिचन्द्रम् ॥ 324-A For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy