________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
3598
A DESCRIPTIVE CATALOGUE OF
No. 4810. ब्रह्मसूत्रभाष्यम्.
BRAHMASÚTRABHĂŞYAM. Substance, paper. Size, 83x 6 inches. Pages, 88. Lines, 32
on a page. Character, Telugu. Condition, good. Appearance, not recent. Complete. A few stanzas in the beginning are wanting.
A well-known commentary on the Brabmasutras of Vyana ; by Anandatirtha, the South Indian founder of the Dvaita-school of Vedanta. Beginning:
यथा व्यासत्वमेकस्य कृष्णस्यान्ये विशेषणात् । सविशेषणसूत्राणि ह्यपराणि विदो विदुः ।। मुख्यस्य निर्विशेषेण शब्दोऽन्येषां विशेषतः । इति वेदविदः प्राहुः शब्दतत्त्वार्थवेदिनः ।। सूत्रेषु येषु सर्वेऽपि निर्णयास्समुदीरिताः । शब्दजातस्य सर्वस्य यत्प्रमाणश्च निर्णयः ।। एवंविधानि सूत्राणि कृत्वा व्यासो महायशाः । ब्रह्मरुद्रादिदेवेषु मनुष्यपितृपक्षिषु ।। ज्ञान संस्थाप्य भगवान् क्रीडते पुरुषोत्तमः ।।
ओम् अथातो ब्रह्मजिज्ञासा ओम् । अथशब्दो मङ्गळार्थोऽधिकारानन्तर्यार्थ)श्च । अतश्शब्दो हेत्वर्थः । उक्तं च गारुडे
अथातश्शब्दपूर्वाणि सूत्राणि निखिलान्यपि । प्रारम्भ(भ्य)न्ते नियत्यैव तत्किमत्र नियामकम् ।।
For Private and Personal Use Only