________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SANSKRIT MANUSCRIPTS.
3915
न तत्त्वप्रचयं काले शिवमेकोऽस्ति केवलम् । शिवोऽस्ति सच्चिदानन्दपरिपूर्णो निरञ्जनः ।। अकारणमकार(र्य)ञ्च मनोवाचामगोचरम् । आदिरत्यञ्च(न्त) शून्यञ्च व्योमाव्योमविवर्जितः ॥
ध्यानज्ञानमयाहीनं शून्यलिङ्गमनाश्रयम् । Colophon:
इति सर्वशून्यस्थलं सम्पूर्णम् ॥ End :
सर्वाकारे चिदानन्दसच्चिद्रूपिणि शाश्वते । पराकाशमये तस्मिन् परब्रह्मणि लीयते ॥ एकीभूतमुपेतानां योगिनां परमात्मनाम् । परावरपरिज्ञानं परिहासकथा कुतः ॥ अप्रमेये चिदाकारे ब्रह्मणोऽद्वैतवैभवौ (वे)। विविन(च्य)किं न जानाति खात्मनः परमेव वा ॥ प्रतीयमानौ विद्यते भावाभावौ न कुत्रचित् । लि.क्ये सति यत्तस्मात् भावाभावलयस्तदा ॥ परस्पर(स्य)संमोक्षाभावाभावविमोचनम् । ज्ञानं ब्रह्मणि यन्नास्ति ज्ञानशून्यस्थलं विदुः ॥ ज्ञातेन ज्ञानमालोक्य ज्ञानं ज्ञेये विलीयते । लक्ष्यलक्षणयोरैक्यं ज्ञानशून्यमितीरितम् ॥
निर्विकल्पो निराधारो निर्गुणो निर(रु)पादि(धि)कः । प्रत्यक्षजगदाधारः पाहि(तु) मां शशिभूषणः ||
For Private and Personal Use Only