________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
8912
À DESCRIPTIVE CATALOGUE OF
वारे निर्जरवैरिणामपि गुरोः श्रीपौर्णमासीदिने ग्रन्थोऽयं परिपूर्णतामवहत प्रख्यातसारार्थयुक् ।। अनुत्तरगभीरिमा बहुतरङ्गकल्लोलवान् उदित्वरकलाश्रयो महितरत्नलक्ष्म्यान्वितः । अयं जनितधीसुधस्स शिवतत्त्वरत्नाकरः क्षितौ विजयतां चिरं कृतिवरोऽखिलाश्चर्यकृत् ॥ शक्यस्तरीतुं न भवेत्परैर्य आदेयतामप्यखिलस्य धत्ते । स एष भूयश्शिवतत्त्वरत्नाकरस्सतां कौतुकमातनोतु ॥ दोषैरेष विवर्जितो बहुगुणैरालिङ्गितस्सप्रभः सद्वृत्तो बहुळार्थयुङ्कवलसत्कल्लोलरत्नान्वितः । ग्रन्थोऽयं मणिहारवत्तव शतेनाष्टोत्तरेणाधुना गौरीनाथ भवेत्तरङ्गमणिभिर्विभाजितो भूषणम् ।। एतच्छास्त्रं ये पठन्ति शृण्वन्ति विलिखन्ति वा । तेषामायुररोगत्वपुत्रपौत्रादिसम्पदः ।। धनधान्यसमृद्धिश्च सौभाग्यमपि चाधिकम् । प्रतिक्षणं सम्भवन्ति तरङ्गा इव वारिधेः ।। साम्राज्यादिसुखानीह समासाद्य ततः परम् । शिवलि.कसम्पत्त्या परानन्दं भजन्ति ते ॥
No. 5118. शिवाद्वैतम्.
ŚIVĀDVAITAM. Sabstance, palm-leaf. Size, 171 x 1 inches. Pages, 181. Lines, 7
on a page. Character, Ka. Tiras9. Condition, injured. Appearance, old.
Contains the following seven Patalas of which the first six are complete, and the 7th is incomplete.
For Private and Personal Use Only