________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SANSKRIT MANUSCRIPTS.
3901
स्फुरद्विधिकपालकं ज्वलननेत्रयुक्फालक गळप्रकटमेचकं शिवमुपास्महे मोचकम् ।। त्रिलोकपरिरक्षिणी खलसमूहसंशिक्षिणी श्रिताभिमतपूरणी श्रुतिशिरोऽन्तसञ्चारिणी । जगत्प्रळयसाक्षिणी करुणगर्भितावेक्षिणी शिवस्य चरणाम्बुजे प्रि(प्र)यतमावतां नोऽस्य हि ।। यद्रूपमास्थाय शिलादनाम्ने तपोधनाय प्रससाद शम्भुः । यस्यानुगाच प्रमदास्समस्ता वन्दामहे नन्दिनमिन्दुगौरम् ।। दक्षाध्वरध्वंसनदक्षशक्तिः श्रितेष्टविश्राणनसानुरक्तिः । करान्तरान्दोळितचन्द्रहासः स वीरभद्रोऽस्तु मुदे सहासः ।।
जातस्तत्पुरुषायाद्वदनतो यो रेवणीसिद्धराट् किञ्चाघोरमुखाच्च यो मरुळसिद्धेशः प्रसिद्धोऽभवत् । जज्ञे कामदवामदेववदनाद्यः पूजिताचार्यकः सद्योजातमुखोदितोऽप्यवतु मां यश्चैकरामो गुरुः ॥ आसीदुज्जयिनीपतिर्मरुळसिद्धेशो गुरुप्रस्फुरत्पादेशोऽथ वसन्तदेवमहितश्रीमल्लिकाद्यार्जुनौ । वीरश्चीनपरस्ततो गुरुपदस्वामी वसन्तस्ततः
तस्मादुन्नतचेन्नवीरविभुरित्याचार्यपारम्परी ।। यत्कर्णताळप्रसरत्समीरवराङ्कुराप्ताभ्यवहारतृप्ताः । भूषाभुजङ्गा विलसन्ति यस्य सोऽयं दिशेद्विघ्नशमं गजास्यः ।।
शुभगुणनिकुरम्बामिन्दुचिदक्तूबिम्बां पुळिनजयिनितम्बां पल्लवाभोष्ठबिम्बाम् । कृतनमदवलम्बां दत्तसारोक्तिगुम्भां करसदमृतबिम्बां नौम्यहं शारदाम्बाम् ।।
341
For Private and Personal Use Only