SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 3893 श्रीकान्तद्रुहिणोपमन्युतपनस्कन्देन्द्रनन्द्यादयः प्राचीना गुरवोऽपि यस्य करुणालेशाद्गता गौरवम् । तं सर्वादिगुरुं मनोज्ञवपुषं मन्दस्मितालङ्कतं चिन्मुद्राकृतमुद्रपाणिनळिनं चित्ते शिवं कुर्महे ॥ तस्मात्सह तया शक्तया . . . . गुणालयम् । इत्यादिपुराणवचनानुरोधात् ब्रह्मविद्याधिदेवतया सदाशिवाङ्कमारूढशक्तिरिच्छाह्वया शिवा । इति शिवपुराणोक्तेः भगवत इच्छाशक्तिरूपया. एवंभूतं शिवं चित्ते कुर्महे ध्यायामः । अत्र श्रीकान्तेत्यादिना विशेषणेन स्तोत्रेण व्यवस्थापयिष्यमाणं शिवस्य विश्वाधिकत्वं विश्वसे. व्यत्वञ्चोपक्षिप्तं मन्तव्यम् । एवं परदेवतामनुसन्धाय व्यवस्थापयिष्यमाणसकलार्थप्रमाणभूतां परविद्यामनुसन्धत्ते---- परशिवपरोत्कर्षप्रख्यापनैकपरायणा पवनतपनव्यासाद्युक्त्युत्करैरुपबंहिता। कुमतिपरिषच्चेतःकीलायितार्थनिबन्धना जयतु नितरामाद्या विद्या जनस्य हितैषिणी ॥ मूर्तित्रयातीतो मायाशिवः परमशिवः । तदीयनिरतिशयो . . . . . . . . . परब्रह्मणः स्तुतौ स्वस्य नाधिकार इत्याक्षिप्य समाधत्ते-~ प्रभावं ते नालं परशिव परिच्छेत्तुममरा नरः स्तोतुं वाञ्छन् न कथमपहास्यत्वमयताम् । तथापि त्वन्नामस्मृतिगुणनिकापुण्यभजनं कुतोऽप्यस्तु द्वारादिति मतिरिह प्रेरयति माम् ॥ . एवं मूर्खाणां शिवभजनवैमुख्यस्य पापपरिपाकरूपत्वं प्रदर्शितम् । तद्वैमुख्यस्य पापसाध्यत्वे दृष्टद्वारोपन्यासेन तदेव दृढीकृत्य स्वस्य शिवभजनैकान्त्यसम्पादनेन सकलभयसन्तारकस्य निरतिशयपुरुषार्थरत्नाकरस्य बोधस्य स्थैर्य प्रार्थयते End: For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy