SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 3892 www.kobatirth.org यद्यपि निष्कळं निष्क्रियं शान्तं निरवद्यं निरञ्जनम् । यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमा यत्र त्वस्य सर्वमात्मैवाभूत् तत्केन कं पश्येत् - इति श्रुतिः । 张 A DESCRIPTIVE CATALOGUE OF प्रत्यस्तमितभेदं यत् सत्तामात्रमगोचरम् । वचसामात्मसंवेद्यं तज्ज्ञानं ब्रह्मसंज्ञितम् ॥ इत्यादिस्मृतिसन्दोह सन्दर्भसम्प्रतिपन्नं निरस्तसमस्त कर्तृकर्मादिभेदप्रपञ्चमखिलवाङ्मनसपथातीतं निर्गुणं शिवतत्त्वं न स्मृतिगोचरीकर्तुं शक्यम् ; तथापि मायान्तु प्रकृतिं विद्यान्मायिनन्तु महेश्वरम् । • इत्यादिश्रुतिस्मृतिशत प्रतिपन्नं * * तमालश्यामलगलं लसत्फालविलोचनम् । Acharya Shri Kailassagarsuri Gyanmandir स्वाधिष्ठितानिर्वचनीयमायाकल्पितगुणा भोगं उमासहायं परमशिवशब्दितं तस्यैव सगुणं रूपं गौतमदधीच्यादिशापनिर्मूलितपरमशिवपद नळिनभक्तिलेशकलिमलमलीमसहृदय कुहर विश्रान्तदुरन्तदुरितानुबन्धितं निन्दा मुखर मुखबिल कुमति कुलप्रलापदूरीकरणेन विश्वाधिकत्वविश्वसेव्यत्वव्यवस्थापन परैः चतुष्षष्ट्या पद्यैः स्तोतुकामः परमशिवस्वरूपमहिमविषयग्रन्थनिर्माणे तदवबोधं विनानधिकारात् तस्य यमेवैष वृणुते तेन लभ्यः स नो बुद्ध्या शुभया संयुनक्तु । ईश्वरात् ज्ञानमिच्छेत् । इत्यादिश्रुतिस्मृतिभिः तत्प्रसादैकलभ्यत्वप्रतिपादनात् । तत्र च - यथान्तरोपचारेण नरः स्त्रीषु प्रसीदति । तथान्तरेण ध्यानेन प्रसीदति महेश्वरः ॥ इत्यादिस्मृतिभिः अन्तरनुसन्धानस्यान्तरङ्गोपायत्वोपदेशादिदमेव सर्वोत्कृष्टं मङ्गलमिति हृदयेनादौ कृतं ध्यानं श्लोकेन निबध्नन् आरिप्सितस्त्रोत्रव्यवस्थापनीयमप्यर्थं सूचयति - For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy