________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SANSKRIT MANUSCRIPTS.
3863
No. 5085. नारायणशब्दनिर्वचनम्.
NARAYAŅASABDANIRVACANAM. Pages, 34. Lines, 6 on a page.
Begins on fol. la of the MS. described under No. 4909. Incomplete.
Deals with the etymology and meaning of the word Nārāyaṇa from the Saiva standpoint. Beginning:
शिप्यगोविन्दहृत्पद्मभास्करं करुणाकरम् ।
सूर्यग्र्यवन्द्यपादाब्जं नौमि पापयशाश्रि(स्त्रि)णम् ।। विलासार्थ नरत्वं जीवत्वमयते प्राप्नोतीति नारायणः । अय पय गतौ नन्द्यादिभ्यो ल्युः, कृत्यल्युटो बहुलमिति वा कर्तरि ल्युट् । नर इत्यत्र भावप्रधानो निर्देशः; प्रज्ञादित्वात् स्वार्थे अण् ।
मनसैतानि भूतानि प्रणमेद्वहुमानयन् । ईश्वरो जीवकथया प्रविष्टो भगवानिति ।। इति भागवते । उपाधिभिर्यथाकाशो भिन्नत्वेन प्रतीयते ।
अविद्योपाधिभेदेन तथेदमखिलं जगत् ॥ इति नारदीयेऽपि च ।
अरेरिदमारं शत्रुकृतपूजनं तद्विरुद्धं नारं भक्तरूतपूजनं तदयते प्राप्नोतीति वा ।
अण्वप्युपहृतं भक्तैः प्रेम्णा भूर्येव मे भवेत् ।
भूर्यप्यभक्तोपहृतं न मे तोषाय कल्प्य(ल्प)ते ॥ इति भागवते । न विद्यन्ते आरा दोषा येषां ते नारा भक्ताः तान् आययते मुक्तिं प्रापयति इति वा; अन्तर्भावितणिच् ; नञर्थस्य नशब्दस्य सुप्सु. पेति समासः ।
ध्यातः स्मृतः पूजितो वा स्तुतो वा नमितोऽपि वा । स्वं पदं सन्ददातीशस्तं वन्दे पुरुषोत्तमम् ।। इति नारदीये ।
For Private and Personal Use Only