________________
Shri Mahavir Jain Aradhana Kendra
3856
www.kobatirth.org
Beginning :
A DESCRIPTIVE CATALOGUE OF
No. 5078. चतुर्वेदतात्पर्यसङ्ग्रहः:- सव्याख्या.
CATURVÉDATATPARYA SANGRAHAḤ WITH
COMMENTARY.
Pages, 24. Lines, 7 on a page.
Begins on fol. 47a of the MS. described under No. 5075. Incomplete (25 Slokas).
Similar to the above.
Contains also a commentary.
यस्मै नमो भवति यस्य गुणास्समग्रा नारायणोपनिषदा यदुपासनोक्ता ।
यो नः प्रचोदयति बुद्धिमधिक्रतौ यः तं त्वामनन्यगतिरीश्वर संश्रयामि ॥
Acharya Shri Kailassagarsuri Gyanmandir
*
;
यस्मै नम इति । नमो नमस्कारो यस्य सम्बन्धी भवति नमस्कारक्रिययास्यैवाभिप्रेतत्वात् नमसस्तत्सम्बन्धित्वम् । यस्मै नमः तसै (स्मै त्वा जुष्टं नियुनज्मि इति मन्त्रानुकरणार्थत्वादनुकार्यानुकरणयोरभेदविवक्षया यस्मै इति चतुर्थी ; अनेन नमश्शेषित्वं लक्ष (ण) मुक्तम् । समग्रास्सकलगुणा ऐश्वर्यादयो यस्य सम्बन्धिनः अनेन ऐश्वर्यादिगुणकत्वं लक्षणमुक्तम् । नारायणोपनिषदा उप समीपे ईश्वरस्य प्रतीकत्वेन निषदिति इति उपनिषत् वेदान्तविभागः उपनिपूर्वात्सदेस्सत्सूद्विषेति किपि सदिरप्रतेरिति षत्वम् । नारायणेन महर्षिणा दृष्टा उपनिषन्नारायणोपनिषत् तया यस्योपासनोक्ता । अनेन नारायणोपनिषदुदीरितोपास्यत्वं लक्षणमुक्तम् ।
*
वेदेषु वा तदनुयायिषु वा विचार्य तन्त्रेषु वाक्यमखिलं प्रतिपादकं ते । तात्पर्यसङ्घ (हम) हं विदधे महेश मां प्रसीद नय मामृजुना पथा त्वम् ॥
For Private and Personal Use Only