SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 3765 बहिरन्तस्तमस्स्तोमविध्वंसिनखरांशुभिः । द्योतमानौ श्रीमदार्यचरणौ शरणं भजे ।। आश्रयत्वविषयत्वभागिनी निर्विभागचितिरेव देवता । पूर्वसिद्धतमसोऽपि पश्चिमो नाश्रयो भवति नापि गोचरः ।। इति शुद्धचिद्रूपं ब्रह्मैव प्रपञ्चमूलभूतस्याज्ञानस्याश्रयो विषयश्चेति मृषावादिवेदान्तिनः सङ्गिरन्ते । तत्र ज्ञानरूपं परं ब्रह्म तन्निवयं मृषात्मकम् । अज्ञानं चेत्तिरस्कुर्यात् कः क्षमस्तन्निवर्तने ।। इत्यादिभगवन्नाथमुनिप्रोक्तकारिकोदाहरणमुखेन भगवद्भाष्यकारैरुपपादिता एव दोषा ग्रन्थान्तरेप्वपि प्रपचिताः । End: तस्मात् ब्रह्मण एवाज्ञानाश्रयत्वाभ्युपगमे ऽहं ब्रह्मेति वाक्यप्रामाण्यं दुर्वारमिति । एवमेकादशे तत्र पर्यायेऽस्माभिरीरिते । कथाया विश्रमस्तावत् कृतः प्रभुनिदेशतः ॥ इत्थं श्रीमच्छतदूषण्यां सत्त्वाश्रयः किं ब्रह्मस्वरूपम् ? उत तदेवोपहितम् ? अथवा स्वतन्त्रोऽन्यः ? न प्रथमः-- नित्यशुद्धिविरोधात् इति भगवन्निगमान्तदेशिकानुगृहीतदोषेणैव ब्रह्माश्रिताज्ञानवादो निरस्तो न त्वस्माकं तत्र निर्भरः ॥ Colophon: श्रीश्रीनिवाससुधिया त्र्यम्बकनैयायिकस्य सति वादे । ब्रह्माज्ञाननिरासः कृत इह सन्तः प्रसीदन्तु ।। For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy