SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3758 A DESCRIPTIVE CATALOGUE OF Beginning: अखिलभुवनहेतो मोक्षदे संतत्रदा(नता)नां निखिलनिगमवेद्ये(ब्रह्म)शब्दाभिधेये । भवतु विहितलोकत्राणया नित्यरक्षाव्रतजुषि मम मात्रा पद्मया सन्नतिर्ने । तैस्तैर्गोमुखदुमु(म)गैर्विमतिभिर्मुष्टां बहु . . . . (पा)राशर्यवचस्सुधां यतिपतेः श्रीभाष्यवेदात्मनः । श्रीमत्सुन्दरराजदेशिकवचोगुम्भप्रसन्नात्मना प्रत्यानीय समर्पितास्सुमनसो भ(ौमाः)पिबन्त्वन्वहम् ।। श्रुतप्रकाशिकातत्त्वटीकादिषु तु विस्तरः । निपुणास्तत्र कुर्वन्ति परपक्षापनोदनम् ।। पदच्छेदः पदार्थोक्तिर्विग्रहो वाक्ययोजना । अन्येषां सुखबोधार्थ क्रियतेऽत्र यथामति ।। तेषु सम्भावितो दोषः क्षन्तव्यस्समबुद्धिभिः । पित्रादिभिर्यथापत्यजल्पितेषु दयाधनैः ॥ इह खलु परमकारुणिकः पाराशर्यः कृष्णद्वैपायनः संसारसागरान्त. र्निममानां भविनामुद्दिधीर्षया सर्वाणि शास्त्राण्यालोड्य अशिथिलगतिभिर्युक्तिवगैर्विचार्य मोक्षोपायभगवद्भक्तिप्रपत्तिसाधनीभूतार्थपञ्चकप्रतीति - सिद्ध्यर्थ शारीरकचतुरध्यायी निरमिमीत । टङ्कद्रमिडकुहदेवबोधायनादयः पूर्वाचार्यास्सङ्ग्रहविस्ताररूपेण व्याचख्युः । अर्वाचीनास्तद्विपती(री)ततया व्याचख्युः । तन्निराकरणपूर्वकं तैर्व्याख्यातमेवार्थ नातिसङ्ग्रहविस्ताररूपेण व्याचिख्यासुभगवान् भाष्यकारो निर्विघ्नसमाप्तये कृतं मङ्गळं शिष्यशिक्षायै ग्रन्थतो निबध्नाति-अखिलेत्यादिना । अखिलानि समस्तानि । भुव- . नानि भवन्तीति व्युत्पत्त्या कार्यजातानि । तेषां जन्म उत्पत्तिः, स्थेम(1) स्थितिः, भङ्गः लयः ; ते आदयः येषां ते । आदिशब्देन अन्तःप्रविश्यनियमनादिकं गृह्यते । For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy