SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org THE SANSKRIT MANUSCRIPTS. Acharya Shri Kailassagarsuri Gyanmandir 3737 पूर्वाचार्यसुरक्षितां बहुमति व्याघातदूरस्थिता - मानीतां तु निजाक्षरैस्तुमनसो भौमाः पिबन्त्वन्वहम् || भगवद्बोधायनकृतां विस्तीर्णा ब्रह्मसूत्रवृत्तिं पूर्वाचार्यास्सश्चिक्षुिपुः । तन्मतानुसारेण सूत्राक्षराणि व्याख्यास्यन्ते अथातो ब्रह्मजिज्ञासा । अत्रायमथशब्द आनन्तर्ये भवति । अतश्शब्दो वृत्तस्य हेतुभावे । अघातसाङ्गसशिरस्कवेदस्याधिगताल्पास्थिर फलकेवलकर्मज्ञानतथा सञ्जातमोक्षाभिलाषस्यानन्तस्थिरफलब्रह्मजिज्ञासा नन्तरभाविनी । ब्रह्मणो जिज्ञासा ब्रह्मजिज्ञासा | ब्रह्मण इति कर्मणि षष्ठी । कर्तृकर्मणोः कृतीति विशेषविधानात् । For Private and Personal Use Only - End: यदि परमपुरुषायत्तं मुक्तैश्वर्यम् ; तर्हि तस्य स्वतन्त्रत्वेन तत्सङ्कल्पान्मुक्तस्य पुनरावृत्तिसम्भवाशङ्केत्यत्राह अनावृत्तिश्शब्दादनावृत्तिश्शब्दात् । यथा निखिलहेयप्रत्यनीककल्याणैकतानो जगज्जन्मादिकारणं समस्तवस्तुविलक्षणस्सर्वज्ञस्सत्यसङ्कल्प आश्रितवात्सल्यैकजलधिः परमकारुणिको निरस्तसमाभ्यधिकसम्भावनः परब्रह्माभिधानः परमपुरुषोऽस्तीति शब्दादवगम्यते ; एवमहरहरनुष्ठीयमानवर्णाश्रमधर्म (नुगृहीततदु) पासनरूपतत्समाराधनप्रीत उपासीनाननादिकालप्रवृत्तानन्तदुस्तर कर्मसञ्चयरूपाविद्यां बिनिवर्त्य स्वयाथात्म्यानुभवरूपानवधिकातिशयानन्दं प्रापय्य पुनर्नावर्तयतीत्य ( पि शब्दादेवा) वगम्यते । शब्दश्च स खल्वेवं वर्तयन्यावदायुषं ब्रह्मलोकमभिसम्पद्यते न च पुनरावर्तत इत्यादि ( क): । तथा च भगवता स्वयमेवोक्तम् ---
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy