SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3738 A DESCRIPTIVE OATALOQUE Or " मामुपेत्य पुनर्जन्म दु:खालयमशाश्वतम् । नामुवन्ति महात्मानस्संसिद्धिं परमां गताः ।। आ ब्रह्मभवनाल्लोकाः पुनरावर्तिनोऽर्जुन । मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते ॥" इति । न चोच्छिन्नकर्मबन्धस्यासङ्कचितज्ञानस्य परब्रह्मैकानुभवस्खभावस्य तदेकप्रियस्यानवधिकातिशयानन्दं ब्रह्मानुभवतोऽन्यापेक्षा । तदर्थारम्भाद्यसम्भवात् पुनरावृत्तिशङ्का । न च परमपुरुषस्सत्यसङ्कल्पोऽत्यर्थ. प्रियं ज्ञानिनं लब्ध्वा कदाचिदावर्तयिष्यति । य एवमाह "प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः । उदारास्सर्व एवैते ज्ञानी त्वात्मैव मे मतम् ॥ आस्थितस्स हि युक्तात्मा मामेवानुत्तमां गतिम् । बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते ॥ वासुदेवस्सर्वमिति स महात्मा सुदुर्लभः ।" इति ॥ सूत्राभ्यासश्शास्त्रपरिसमाप्तिं द्योतयतीति सर्व समञ्जसम् ।। Colophon: इति श्रीभगवद्रामानुजविरचिते शारीरकमीमांसाभाष्ये चतुर्थस्याध्यायस्य चतुर्थः पादः ॥ समाप्तश्च चतुर्थोऽध्यायः ।। समाप्तं शास्त्रम् ॥ रामानुजकृतं भाष्यं पूर्णाय महते मुदा । लिखितं देवराजेन शब्दारग्वधजन्मना ॥ सर्वदेशदशाकालेष्वव्याहतपराक्रमा । रामानुजार्यदिव्याज्ञा वर्धतामभिवर्धताम् ।। For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy