________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
3720
A DESORIPTIVE CATALOGUB OF
Beginning :
अथ क एते सन्तः । " धृतोर्ध्वपुण्ड्रः कृतचक्रधारी विष्णुं परं ध्यायति यो महात्मा । खरेण मन्त्रेण सदा हृदि स्थितं परात्परं यन्महतो महान्तम् ॥"
इति श्रुतिप्रतिपन्नभगवच्चिह्नलक्षिता इति ब्रूमः । एतच्च भगवल्ला न्छनधारणं श्रुतिस्मृतीतिहासपुराणपाश्चरात्राचारेषु प्रसिद्धम् । तथा हि शतपथे
अथ कात्या(य)नेति होवाच परं ब्रह्मेत्येको देवो विश्वतश्चक्षुरिति विश्वात्मा विश्वतोबाहुस्स एष पुरुषोऽन्तर्यामी विश्वतोमुखः । सर्वात्मा विश्वतस्स्यादिति । End:
श्रीभागवते---- "निन्दन्ति ये भगवतश्चरणारविन्दचिन्ताविधूतसकलाशुभकल्मषौघान् । तेषां यशोधनसुखायुरपत्यबन्धुक्षेत्रादय(:) स्थिरतरा अपि यान्ति नाशम् ।।"
इत्यादि । पाश्चरात्रे
“वासुदेवरतं नित्यं ये निन्दन्ति द्विजाधमाः ।
विवासयन् खरारोहं कृत्वा भूपस्स सारभाक् ॥" इत्यादि बहु द्रष्टव्यम् ॥ Colophon:
इति श्रीरामानुजपदपङ्कज(भृङ्गायमाण)श्रीमद्देवान्तगुरुसिद्धान्तनिर्वाहकश्रीदोड्डयाचार्यकृतौ परिकरविजयस्सम्पूर्णः ॥
For Private and Personal Use Only