________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
- THE SANSKRIT MANUSORIPTS.
37ii
Incomplete.
This tract criticises the view of the Dvaita-Vedantins that there are different degrees of heavenly bliss «ven in the state of the soul's final salvation.
Beginning : स्वामी समस्तजगतामपि यः पुरासौ दूतो बभूव विनत(प्लवगेन्द्रके)तोः । स्वां दर्शयन्प्रण(त)किङ्करतां स देवः श्रेयांसि मे (दिशतु)वृष्णिकुलाधिराजः ।।
यद्भक्तिरेव निखिलानि फलानि सूते यत्पादपङ्कजयुग धनमस्मदीयम् । यह(न्दि)नो (नि)गममौलिगणास्समस्ता देवः प्रसीदतु स मे करिशैलसङ्गिः(ङ्गी) ॥ श्रीमदादिवराहार्यान्वेङ्कटेशगुरोस्सुतान् । वन्दे येषां प्रसादेन वस्तुभावं गतोऽस्म्यहम् ।। वेङ्कटेशगुरुं भक्त्या प्रपद्येऽस्मत्पितामहम् ।
अनवद्यगुणैर्यस्य छात्रैः पृथ्वी परिष्कृता ॥ अस्मद्गुरोर्गुणगणान् हृदि भावयामः श्रीवेङ्कटेशचरणौ शरणं भजामः । बेदान्तदेशिकपदाम्बुजमाश्रयामः श्रीमद्यतीन्द्रचरणौ मनसोद्वहामः ।। लक्ष्मीसहायपदपङ्कजभक्तिभाजो निघूतसंसृतिभयाः कृपया मु(रा)रेः । साम्यं ब्रजन्ति परमं गतजन्मशङ्का इत्यङ्ग(त्याग)मैकशरणाः प्रवदन्ति
न्यायामासैमुषितमतयो मध्वसिद्धान्तनिष्ठा मुक्तानन्दान् कतिचन जगुस्तारतम्योपबन्धान् । तेषां दर्प विबुधपरिषत्प्रीतये प्रक्षिपामः पश्यन्त्वार्या विमलमनसः प्रेमपूर्व कृति नः ॥ न्यायरत्नावळी सेयं कुमतध्वान्तसन्ततिम् । चिलोपयति धीराणां मण्डनाथ च कल्प्य(प)ते ॥
888-A
For Private and Personal Use Only