SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3698 A DESORIPTIVE CATALOGUE OF End: स्वकृतग्रन्थस्य श्रद्धेयतमत्वसिद्ध्यर्थं स्वस्थ भगवद्भाष्यकारसम्प्रदायाभिजातत्वं तत्प्रसादितश्रीभाष्यवचनभद्रपीठाध्यक्षत्वञ्च वदन् स्वस्य प्रयोजनान्तरस्पृहामन्तरेण केवलदीनजनानुजिघृक्षातिशयेन तत्त्वसारग्रन्थकरणमाह वरदालयमण्डनो मनीषी यतिबृन्दारकभागिनेयपौत्रः । निगमान्तपयोधिकर्णधारो विदधे विश्वहिताय तत्त्वसारम् । यतिबृन्दारकस्य यतिराजस्य भगवद्भाष्यकारस्य । बृन्दारकनागकुञ्जरैः पूज्यमानमित्यनेन समासः । भ()गिनेयो भगिनीसुतो वत्साभिजनो वरदगुरुस्तस्य पौत्रः पुत्रस्य पुत्रः भगवतो भाष्यकृतो द्वे सोदर्ये । तत्रै कस्यास्सुतो वाधूलदाशरथिर्यस्य खल्वजहद्भागिनेयत्वं प्रसिद्धम् । तदुक्तम् -- इतरसुलभा किमेषा भाषा वाधूलदाशरथिरेकः । न परित्यक्तस्त्यजता बन्धूनिति सदसि लक्ष्मणार्यरुता ॥ इति । अन्यस्यास्तु सुतो वात्स्यवरदगुरुः । तदुक्तम् भूमिकमलाभिधाने पुण्ये रामानुजार्यसेोदर्ये । याभ्यामुभावभूतां पुत्रौ दाशरथिवरदनामानौ । इति । तत्त्वसारं शारीरकप्रतिपाद्यार्थजातेष्वभ्यर्हितार्थजातप्रतिपादकताप्रयुक्ततद्वाचकपदवाच्यताकं ग्रन्थविशेषं विदधे चक्रे । शिष्याहितस्य स्वहितत्वाभिसन्धिना क्रियाफलस्य कर्तृगामित्वपरमात्मनेपदं प्रयुक्तम् । भाष्यामृतनिषेवणसुखपरवशेन स्वेनापि ग्रन्थकरणमप्रतिसंहितमिति सूचनाय परोक्षे लिडुक्तः । श्रीभाष्यमेरुकटकोदरलब्धमूर्तिं सौदर्शनोक्तिदृढपञ्जरपाल्यमानम् । सञ्चण्डमारुतरयं विजयैकहेतुं सारौघमाशयतु वो मणिसारिणीयम् ।। For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy