SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3686 A DESCRIPTIVE CATALOGUE OF वासुदेवकथायां हि पौण्डूकस्य कथा यथा । व्यासाचार्यकथायां तु व्यासरायकथा तथा ॥ इति स्वप्नोपदेशेन देशिकानुग्रहेण च ।। चन्द्रिकोदीरिता दोषा न लमा इति साधये ॥ साध्यते ब्रह्मसूत्राणां सङ्गतासङ्गतार्थता । राद्धान्तयो(:) स्वपरयोः श्रीनिवासकृपावशात् ।। इह खलु परमकारुणिको भगवान् बादरायाणः भवभयभग्नजनोद्दिधीर्षया त्रयीं व्याचिख्यासुस्तत्र पूर्वभागार्थनिर्धारणाय निजान्तेवासिनं जैमिनीयं नि नियुज्य तदुत्तरभागतत्त्वार्थनिर्दिधारयिषया स्वयमेव शारीरं शास्त्रं निरूपयितुं प्रववृते । तस्य प्रमेयार्थप्रतिज्ञापरमिदमादिम सूत्रम् ___ अथातो ब्रह्मजिज्ञासा ।। अत्रायमथशब्द आनन्तर्ये भवति । अतश्शब्दो वृत्तस्य हेतुभावे इति श्रीमद्भाष्यम् । अस्यायमभिप्रायः--- ___ गोपार्थहरिशब्दानां धेन्वर्जुनविष्णुप्वे(प्वि)व प्रसिद्धेः प्राचुर्यादथशब्दस्यानन्तर्य शीघ्रप्रत्ययविषयोऽसत्यपवाद इति तावत्सर्वजनीनम् । स च प्रत्याययन्नर्थमुत्तरार्धादिशब्दवत्सम्बन्धिशब्दत्वात् तत्र प्राकरि(रणि)कं पुरोडाशादिकमिव कश्चित्सम्बन्धिनं यावदन्तर्भावयितुं प्रयतते तावदुत्तरभागविचारपरब्रह्मजिज्ञासापर(द)समभिव्याहारलब्धसामर्थ्यः पूर्वभागविचाररूपं सम्बन्धिनमथातो धर्मजिज्ञासेत्यादौ वेदाध्ययनमिव . . . . . . . . आदाय विश्रान्तो निवृत्ताकाङ्कोऽन्यं नापेक्षते ।। End: एतदेवाभिप्रेत्य सर्वे वेदा यत्रैकं भवन्ति, नामानि सर्वाणि यमाविशन्ति, वेदैश्च सर्वैरहमेव वेद्य इत्यादिकमुच्यते । विस्तरस्तु For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy