________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THB SANSKRIT MANUSCRIPTS.
3677
Herein the author establishes that the syllable Na makes it impossible to interpret the word Nārāyaṇa to mean Siva, and that the word denotes Vişnu and nono other than Vişnu; by Tirupputkuli Krşņatātācārya, son of Dösika. Beginning:
रघुकुलजलधेरुदितो विमलः पूर्णो विधुस्सदा जयति । यत्पादोद्भवममृतं शिरसा धृत्वा शिवश्शिवो भवति । वकुळभूषणपादसरोरुहप्रवणमानससंयमिशेखरम् । कलयतो निगमान्तगुरोः पदे कृतधिये गुरवे करवै नमः ॥
लक्ष्मीकुमारतातार्यवंशाब्धिहिमदीधितेः ।
देशिकस्य सुतः कृष्णः कुरुते णत्वचन्द्रिकाम् ॥ उपबृंहणदर्शितया नारमयनं यस्येत्यादिव्युत्पत्त्या शिवपरो नारायणशब्दस्साधुन वेति विप्रतिपत्तिः । अत्र विधिकोटिश्शेवानाम् । निषेधकोटिरौपनिषदानाम् । अयश्च णं च अयणे । नारे नरसम्बन्धिनी अयणे शुभावहविधिज्ञाने यस्मात्स इति व्युत्पत्त्या शिवपरनारायणशब्दस्य साधुताया उभयसम्प्रतिपन्नतया विधी सिद्धसाधनस्य निषेधे बाधस्य च वारणाय तृतीयान्तम् । End : ___ तस्मात्सर्वथा उक्तनिर्वचनात् नारायणशब्दस्य शिवे रूढिर्न सम्भवतीति । तथा च नारमयनं यस्येत्यादिव्युत्पत्त्या शिवपरस्य नारायणशब्दस्य व्याकरणाविहितकार्यघटिततया साधुत्वं न सम्भवत्येवेति सिद्धम् ॥ Colophon:
श्रीशैलकृष्णसुधिया रचिता णत्वस्य चन्द्रिका सेयम् । । कलयतु कुवलयमखिलं हृष्टं चामोदमेदुरं च सदा ॥
327
For Private and Personal Use Only