________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
3678
A DESCRIPTIVE CATALOGUE OF
___No. 4888. णत्वदर्पण:.
NATVA DARPAN AH Pages, 32. Lines, 6 on a page.
Begins on fol. la of the MS. described under No. 3140. Complete. By Śrīnivāsācārya, disciple of Kaundinya-Srinivasa.
Similar to the above. Beginning :
सब्रह्मात्मादयश्शब्दास्सर्वकारणवाचिनः । पर्यवस्यन्ति यत्रैन नारायणमुपास्महे ।। णत्वं वेदान्तसिद्धान्तव्यवस्थापकतां नयन् ।
अङ्गं शृङ्गं श्रुतेर्यस्तु व्याचक्रे तं नमाम्यहम् ॥ इह तावत्सदेव सौम्येदमग्र आसीदेकमेवाद्वितीयं ब्रह्म (ब्रह्म)वा इदमग्र आसीत् आत्मा वा इदमेक एवाग्र आसीत् . . . . . छागपशुन्यायेन सामान्यशब्दानां विशेषशब्दानुरोधित्वेन न्याय्यम् । End:
एवं चोत्तरपदत्वे चेत्यन्यपदान्तविधिविषयत्वाण्णत्वस्य पदान्ते निषिद्धत्वेन कापि पदान्तविधित्वाभावादपदान्तस्य मूर्धन्य इत्याधिकारमाश्रित्य पदान्तस्येति सूत्रं णत्वं च प्रत्याचक्षाणेन भाष्यकारेण तथैवोक्तत्वात्तत्र प्रत्ययलक्षणनिषेधाभावादन्तर्वर्तिनीं विभक्तिमाश्रित्य तत्र पदत्वाविघातान्न कथं चन नाराय(ण)शब्दे सूत्रान्तरेण णत्वप्राप्तिरिति पूर्वपदादित्येव णत्वस्य वक्तव्यत्वात्तस्य च संज्ञामात्रविषयत्वादसाधारण्यं तस्य दुर्वारमिति तेनैव सर्वेषां वेदान्तवाक्यानां पर्यवसानं युक्तमिति निकण्टकोऽयं घण्टापथः ॥
नारायणपदे णत्वं संज्ञात्वैकान्तिकं यतः । तेन नारायणो विष्णुर्नान्ये मन्ये शिवादयः ।।
For Private and Personal Use Only