SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 3669 निबिडनीरन्ध्रनिस्सीमनिस्सङ्ख्यदुस्तरतम प्रचुरदु खात्मकहेयतमसंसारकु • हरे परितो भ्राम्यमाणानविदितोत्तरणोपायाननाकलितवेदान्तार्थानज्ञातात्मखरूपानस्मानवलोक्य, एवं संसृतिचक्रस्थे भ्राम्यमाणे स्वकर्मभिः । जीवे दु:खाकुले विष्णोः कृपा काप्युपजायते ॥ इत्युक्तरीत्या सञ्जातकारुण्येन भगवता सर्वचेतनानुजिघृक्षयार्जुनशोकापनोदनव्याजेन सर्वोपनिषत्सारभूतमध्यात्मशास्त्ररूपगीताशास्त्रं भूमाववतारितम् । तत्र भगवता श्रीमद्यामुन. मुनिना उपनिषत्सारभूतगीतार्थानामतिनिगूढतया मादृशैर्मन्दमतिभिर्ज्ञातुमशक्यत्वमाशङ्कय सङ्ग्रहः कृतः । प्रथमश्लोकेन शास्त्रार्थस्सङ्गृहीतः । त्रिभिः श्लोकैष्षत्रयार्थास्सङ्ग्रहीताः । ततः परमष्टादशभिः श्लोकैरष्टादशाध्यायास्सिङ्गहीताः । शिष्टैः श्लोकः कर्मयोगज्ञानयोगभक्तियोगतदधिकारिस्वरूपं च प्रपञ्चितमिति क्रमविभागः । End: __ इति गीतार्थसङ्ग्रह इति । इत्थमेव सर्वविशिष्टसम्प्रदायपरम्परागतस्समीचीनो गीतार्थः न पुनरन्यकुदृष्टिभिरुन्नीतः स्वयोगमहिमचुळकितपरमपुरुषविभूतियुगळभग(व)न्नाथमुनिनियोगागतश्रीराममिश्रसकाशात् बहुशास्त्रविद्भिरपि बहुश्रुतस्य भगवद्गीतार्थप्रपञ्चस्य सङ्ग्रह इति मुमुक्षुभिस्सङ्ग्राह्य इति भावः ॥ सारं फल्गुनसारथीयवचसां श्रीयामुनेयोद्धतं विस्पष्टैरिति वेङ्कटेश्वरकविाचष्ट भाप्याक्षरैः । यहादेषु कुदृष्टिबाह्यकुहनाकोलाहलास्कन्दिभिग्जिालैर्जयघोषणाझणझणैर्विद्राणनिद्रा दिशः ॥ For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy