SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 2963 ओम् "धर्मार्थकामेभ्यो नमः " अत्रभवान्वात्स्यायनः ब्रह्मानन्दाभिव्यञ्जकवृत्तिविशेषतया समाधेरिव कामस्य परमपुरुषार्थतां, निषेधशास्त्रस्य तत्स्वरूपानभिज्ञविषयतां, धर्मार्थयोश्च यागस्य प्रोक्षणावघातयोरिव सन्निपत्योपकारकतां, स्त्यून्नपानादेश्च सत्सङ्गादेरिव तत्साधनताम, आनन्दाभिव्यञ्जकतया मोक्षादप्यभ्यर्हिततमतां च पश्यन्निष्प्रयोजनत्वामूलकत्वाशिष्टपरिगृहीतत्वादिदोषान्क्रमेण वारयन् विघ्ननिवर्तकं ब्रह्मानन्दानुसन्धानलक्षणमङ्गलञ्च शिष्यशिक्षायै प्रेक्षावत्प्र. वृत्तयेऽनुबन्धचतुष्टयं च सूचयन् साङ्गं परमपुरुषार्थ निर्दिशति । तत्र धर्मत्वमलौकिकप्रवर्तकत्वमिति भाट्टाः; यागादिजन्यापूर्वत्वमिति प्रा. भाकरादयः । राजाज्ञादिव्यावृत्तयेऽलौकिकपदम् । प्रतिग्रहादिसाध्यत्वमर्थत्वम् । यद्यप्यर्थ्यत इति व्युत्पत्त्या सर्वस्याप्यर्थत्वं प्रतीयते; तथापि निर्मन्थ्याधिकरणन्यायेन योगाढेः प्रबलत्वात् पङ्कजादिशब्दवद्योगरूढ्या द्रव्यादिपरत्वमेव । कामत्वञ्चानन्दाभिव्यञ्जकवृत्तिविशेषत्वम् । योगादिजव्यावृत्तये विशेषपदम् । निरूपकत्वं विभक्तयर्थः । अपकृष्टत्वप्रकारकज्ञानं नमश्शब्दार्थः ।। End: ___ तदेतद्ब्रह्मचर्येण परेण च समाधिना विहितं लोकयात्रार्थ न रागा. र्थोऽस्य संविधिः । लोकयात्रा लोकोपकारः रागार्थः रागहेतुकः । अस्य शास्त्रस्य संविधिः कृतिः । अनेन रागादिदोषशून्यमहर्षिप्रणीतत्वं सूचितम् । रक्षेद्धर्मार्थकामानां स्थिति खां लोकवर्तिनीम् । अस्य शास्त्रस्य तत्त्वज्ञो भवत्येव जितेन्द्रियः ।। लोकवर्तिनी लोकप्रतियोगिकां लोकेभ्य इति यावत् । जितेन्द्रियः इन्द्रियालम्पटः चतुरः स्त्यूनधीन इति यावत् । For Private and Personal Use Only
SR No.020193
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 08
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1910
Total Pages313
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy