________________
Shri Mahavir Jain Aradhana Kendra
2962
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
A DESCRIPTIVE CATALOGUE OF
श्री सर्वेश्वरशास्त्रिसद्गुरुमहाकारुण्यसाहाय्यतः श्रीराजव्रजलालसादरमुहुस्संप्रेरणादीक्षणात् । श्रीकाश्यां नरसिंहशास्त्रिकविना कन्दर्पचूडामणेः (णि) श्रीवात्स्यायनसूत्रवृत्तिरखिलप्रौढप्रिया लिख्यते ॥
श्रीमद्भास्करवंशवारिधिविधून् षट्शास्त्रवेदस्मृतिश्रौताल्या (द्या) गमकाव्यनाटक मुखप्रोत्कृष्ट विद्याप्रदान् । पूज्याण्णङ्गणयज्व(स)त्कति (वि) सुतान्नत्वा नृसिंहस्सुधीः श्रीवात्स्यायनसूत्रवृत्तिमखिलप्रीत्यै करोति क्रमात् ॥
श्रीवात्स्यायनवीरभद्रमुख सग्रन्थामृताम्भोनिधे
युक्ताख्यान् पृषतोऽद्य (तान् हि ) कांचन समानीयाहमज्ञोऽपि वा ।
वृत्तिं काञ्चन करूपयन्न(न्क) विपदं प्राप्नोमि यद्भुवि क्षुद्रा सा मधुक्कृत्पदं सुमनसस्सारस्य संमेलनात् ||
श्रीभद्रप्रदरामचन्द्रदयया वाणी ममास्यादपि प्रोद्यद्भावरसान्वितातिसरला प्रासैर्युताविर्भवेत् । वीणारोपितसद्गुणापि विरसाप्यत्यन्तमत्यद्भुतकाणैर्वाचयितृप्रभाववशतः सन्तोषदात्री न किम् || पुरुषत्रये त्रिधास्ते वदने वक्षःस्थलेऽङ्कदेशे या । राजव्रजलालविभोर्मुखगृहचित्तेषु साम्बिकास्तु सदा ||
रसगुणगणनाध्यायाः प्रकरण संख्याब्धि देहगाज्ज (म्बुराशिराग ) मिता । साहस्रं लोका अधिकरणं सप्त कामशास्त्रेऽस्मिन् ॥
अर्थो धर्मप्रापकस्यापि हेतुः स्वर्गप्रा (स्या) प्तौ स्वर्गनामैव कामः । अज्ञातार्त्यानन्दरूपाच्च मोक्षात् ज्ञातानन्दः काम उच्चैः पुमर्थः ||
For Private and Personal Use Only