SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 2964 À DESCRIPTIVÉ CATALOGUE ON तदेतत्कुशलो विद्वान् धर्मार्थानवलोकयन् । तानि रागात्मकः कामी प्रयुञ्जानः प्रसिध्यति ॥ धर्मार्थो कामञ्च तत् अ(त)स्मात् अवलोकयन् जानन् कुशलः विलासिनीनां वभावज्ञाने अतिरागात्मकः तद्विलासैरतिरक्तः कामी तदिच्छु: प्रयुञ्जानः स्वयंप्रयोक्ता वा न प्रसिध्यति न भवति, किं तु तासां स्वभावज्ञस्सन् धर्मार्थकामान् संपूर्णान् समृ(म्य)गश्नुते शास्त्रतत्त्ववित् ॥ Colophon: इति श्रीकविपदवाक्यमानतत्त्वज्ञश्रीकाशीनगरनिवासिभास्करनृसिंहशास्त्रिविरचितवात्स्यायनीयकामसूत्रवृत्तौ औपनिषदिके सप्तमेऽधिकरणे द्वितीयोऽध्यायः ॥ ___नष्टरागप्रत्यायनं वृद्धिविधयश्च चित्राश्च योगाः । आदितष्षट्त्रिंशः । समाप्तश्चेदमौपनिषदिकं सप्तमभधिकरणम् । शास्त्रञ्च संपूर्णम् ।। भास्करनृसिंहशास्त्री शास्त्रेष्टार्थप्रदेशकारुण्यात् । वात्स्यायनसूत्राणां वृत्तिं बुधहर्षवृद्धये व्यतनोत् ॥ काशीशं श्रित उल्लसद्गतियुतोऽयं धर्मशास्त्रे तथा वाणी व्याकुरुते कृतेतरगिरं मीमांसते चोभयीम् । पान्थः काव्यपथे तथा परिचितः कामागमे चेति मां ग्रन्थो वक्ष्यति तत्कृतः प्रथयते नो वार्पितोऽस्मिन्भरः ।। अथेतत्प्रबन्धास्तथाध्यापनोक्ता विनोपाधिमस्मिन् विधेयेऽधिकारी । असादु(धु)प्रयोगान्विसन्धीन् प्रबन्धे दयातो बुधास्साधु संशोधयन्तु ।। नूना वृत्तिरितीर्ण्यया विरहिताः पाण्डित्यपारङ्गताः तत्कामाश्च कृपालवोऽत्र रसिकाः पश्यन्त्यवश्यं कृतिम् । यद्वा विद्वदधीशभक्तकलितक्षीरप्रसूनप्रियो विश्वेशः कृतिकारकः कृतिहितः कृत्यानया तुष्यति ॥ For Private and Personal Use Only
SR No.020193
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 08
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1910
Total Pages313
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy