________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SANSKRIT MANUSORIPTS.
1668
यदेकं निष्कलं ब्रह्म व्योमातीतं निरञ्जनम् । अप्रतय॑मविज्ञेयं विनाशोत्पत्तिवर्जितम् ॥ कारणं योगनिर्मुक्तं हेतुसाधनवर्जितम् ।
हृदयाम्बुजमध्यस्थं ज्ञानज्ञेयखरूपकम् ।। तत्क्षाणादेव मुच्येत यदानाब्रूहि केशव ।
हे केशव यदानात् यस्य ब्रह्मणः सम्यग्ज्ञानात् तत्क्षणादेव ज्ञानोत्तरक्षण एव मुच्येत अविद्यानिवृत्तिद्वारा आनन्दावाप्तिर्भवेत् तद्भूहि स्वरूपतटस्थलक्षणाभ्यां प्रतिपादयेत्यर्थः । ते एव लक्षणे दर्शयति यदित्यादिना । एकं सजातीयविजातीयस्वगतभेदरहितं, निष्कलम् अवयवरहितं, व्योमातीतम् आकाशादिचतुर्विंशतितत्त्वातीतं, निरञ्जनं स्वयंप्रकाशम्, अप्रतय॑म् अमनोगोचरं, यन्मनसा न मनुतेति श्रुतेः, अविज्ञेयं प्रमाणाविषयं, यद्वाचानिरुक्तं, यतो वाचो निवर्तन्ते । अप्राप्य मनसा सह इति श्रुतेः । विनाशोत्पत्तिवर्जितं त्रैकालिकं, कारणं सर्वोत्पत्तिमन्निमित्तोपादानभूतं, योगनिर्मुक्तं वस्त्वन्तरसंबन्धरहितं, हेतुसाधनवर्जितं निमित्तत्वोपादानत्ववर्जितमित्यर्थः । स्वस्य सनातनत्वेन ताभ्यामेव वर्जितमिति वा। हृदयाम्बुजमध्य स्थं सर्वलोकान्तर्नियामकतया सर्वलोकहृदयकमलमध्यस्थम् । ज्ञानं विषयप्रकाशः, ज्ञेयं विषयः, तदुभयस्थरूपं तदुभयसत्तात्मकं यद्ब्रह्म, तत्कीदृशमिति प्रश्नार्थः । एवमर्जुनेन पृष्टो भगवान् प्रश्नार्थमभिनन्दन्नुत्तरमाह श्रीभगवानुवाच
साधु पृष्टं महाबाहो बुद्धिमानसि पाण्डव । यन्मां पृच्छसि तत्त्वार्थमशेष प्रवदाम्यहम् ॥
197-A
For Private and Personal Use Only