SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1912 A DEBORIPTIVE CATALOGUE OF शिवानि दातुं शक्ति(क्त)त्वात् परत्वात्पावनत्वतः । शिवतीर्थमिति प्राहुस्तत्समस्तविचक्षणाः ॥ तत्तीरे तपसा क्लि(क्ल)प्ते मण्टपे विश्वकर्मणा । सहस्रस्तम्भसंयुक्ते चन्द्रकान्तशिलामये ॥ तन्मध्येऽतिपवित्रे च विस्तृतव्याघ्रचर्मणि । उपविष्टं सूतमुनिं शिवध्यानपरायणम् ॥ सर्ववेदान्तविज्ञानसुनिश्चितमहार्थकम् ॥ शम्भुभक्तश्शतानन्द ऊर्ध्वरेताः प्रभाकरः । उग्रवीर्यो महावीर्यो महाकायो महोदरः ॥ जलाशी जीर्णपर्णाशी जितक्रोधो महामुनिः । इत्याद्या मुनयस्सर्वे शिवभक्तिप्रबोधिताः ॥ समागम्य समाधिस्थं दण्डवत्प्रणिपत्य च । तत्पादपङ्कजं भक्तया पङ्कजैः परिपूज्य च ॥ स्तोत्रैस्स्तुत्वा महात्मानं पप्रच्छुः परया मुदा । ऋषयः--- वह्निकुण्डसमुद्भूत भगवन् भक्तवत्सल । समस्तशिवधर्मज्ञ सर्ववेदान्तपारग ॥ शिवक्षेत्राणि सर्वाणि भुक्तिमुक्तिप्रदानि च । अल्पबुद्धिपिरस्माभिः तानि नावधृतानि च ।। तस्माद्विशिष्टं सर्वेषां स्थानानां यच्चिरन्तनम् । शम्भुनाधिष्ठितं नित्यं तदेवं वक्तुमर्हसि ॥ For Private and Personal Use Only
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy