SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS, 1897 ततस्सर्वपुराणानामर्थज्ञोऽसि महामुने । कानि क्षेत्राणि पुण्यानि कानि तीर्थानि भूतले ।। कथं वा लप्स्यते मुक्तिः जीवानां भवसागराछ । कथं हरे हरै वापि नृणां भक्तिः प्रजायते ॥ केन सिध्येत तपसः फलं च त्रिविधात्मनः । एतच्चान्यच्च नस्सर्व कृपया वद सूतज ॥ ब्रूयुः स्निग्धाय शिष्याय गुरवो गुह्यमप्युत । इति पृष्टस्तदा सूतो नैमिशारण्यवासिभिः ॥ वक्तुं प्रचक्रमे नत्वा व्यासं खगुरुमादितः । श्रीसूतःसम्यक्पृष्टमिदं विप्रा युष्माभिर्जगतो हितम् । रहस्यमेतद्युष्माकं वक्ष्यामि शृणुतादरात् ॥ मया नोक्तमितः पूर्व कस्यापि मुनिपुङ्गवाः । मनो नियम्य विप्रेन्द्राः शृणुध्वं भक्तिपूर्वकम् ।। अस्ति रामेश्वरं नाम रामसेतौ प्रतिष्ठितम् । क्षेत्राणामपि सर्वेषां तीर्थानामपि चोत्तमम् ।। दृष्टमात्रे रामसेतौ मुक्तिस्संसारसागरात् । हरे हरौ च भक्तिः स्यात् तेन पुण्यसमृद्धिदा ॥ कर्मणस्त्रिविधस्यापि सिद्धिस्स्यान्नात्र संशयः । यो नरो जन्ममध्ये तु सेतुं भक्तचावलोकयेत् ।। तस्य पुण्यफलं वक्ष्ये शृणुध्वं मुनिपुङ्गवाः । Colophon इति स्कान्दे पुराणे सेतुमाहात्म्ये प्रथमोऽध्यायः ॥ For Private and Personal Use Only
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy