SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 1885 श्रीमदष्टाक्षरो नाम मन्त्रराज इति श्रुतः ।। तेनैवाराधनीयानि क्षेत्राणि वद शङ्कर ॥ श्रीशङ्करःसाधु पृष्टं महाप्राज्ञ सर्वलोकप्रियङ्कर । अष्टाक्षरार्चनीयानि क्षेत्राणि शृणु नारद ॥ सत्यक्षेत्रं हरिक्षेत्रं कृष्णक्षेत्रं च नैमिशम् । सालग्रामञ्च बदरी हस्तिशैलं वृषाचलम् ॥ शेषाद्रिं चित्रकूटञ्च लक्ष्माक्षेत्रं कुरङ्गकम् । कर्णिका कुम्भघोणञ्च मोहिनीपुरमैन्द्रिकम् ॥ श्वेताचलमनन्ताख्यं फुल्लाख्यं घटिकाचलम् । सारक्षेत्रमळिन्दाख्यं कुरुक्षेत्रच वारुणम् ॥ मधुरा माधवञ्चैव शृङ्गोष्ठी पुरुषोत्तमम् । अष्टाविंशतिमेतानि क्षेत्राण्याहुः पुराविदः ।। (नारदः--) चन्द्रशेखर सर्वज्ञ सम्यगुक्तं त्वयाधुना । क्षेत्राणि विहितान्येव श्रीमदष्टाक्षरार्चने ॥ एतेषु पुण्यक्षेत्रेषु कुर्वतां सुमहत्तपः । कालेन भूयसा वा किं सद्यो वा स्यात्तपःफलम् ॥ महेश्वरःचिरेणैव तपस्सिद्धिः क्षेत्रेषेकस्थलं विना । तत्क्षेत्रमेकं जानीहि सद्यस्सिद्धिकरं परम् ॥ सत्यक्षेत्रमिति ख्यातं भोगयोगस्थलं मुने । उत्तरे श्वेततटिनी दक्षिणे मुक्तकार्मुका ॥ पश्चिमे प्रासशैलस्तु पूर्वे पूर्वस्थिता पुरी । एतावति चतुस्सीमान्]ि सत्यक्षेत्रस्य निश्चिता ॥ For Private and Personal Use Only
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy