________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SANSKRIT MANUSCRIPTS.
1863
Adhyāyas 1 to 13.
A portion of the Brabmāņda-Purāņa A work treating of the sanctity and greatness of the shrine at Śrīkākula (Chicacole in the Ganjám district of the Madras Presidency).
Beginning :
श्रीशं श्रीकाकुळाधीशमिन्द्रनीलसमप्रभम् । कल्याणगुणसंयुक्तमाश्रयेऽभीष्टसिद्धये ॥ .
सूतःश्रिया ब्राह्मया समायुक्ताः स(शौ) नकाद्या महर्षयः । सत्रयागक्रियां चक्रु३मिशारण्यवासिनः ॥ स्वाध्यायनिरताश्शुद्धास्तदर्थपरिनीष्ठताः । सर्वशास्त्रार्थतत्त्वज्ञाः शान्तिदान्त्यादिसंयुताः ॥ जितेन्द्रिया जितक्रोधा विष्णुभक्ता विमत्सराः । अत्रिर्वसिष्ठो भगवानगस्त्यः कुशिकात्मजः ॥ . . . वामदेवश्च जाबालिरथ काश्यपः । मार्कण्डेयो महातेजाः शुकः कौण्डिन्य एव च ॥ पराशरो मुनिवरो भरद्वाजस्तथा ऋषिः । एतदाख्या द्विजश्रेष्ठास्सर्वे ब्रह्मर्षिसम्मताः ॥ राजर्षयो महात्मानस्तथा देवर्षयश्च ये । अग्रेसरा ब्रह्मविदामागतास्ते दिदृक्षवः ॥ तानागतानृषिवरान् दृष्ट्वा कुलपतिस्तथा । शौनको हर्षसंयुक्तः पूजयामास धर्मतः ।।
अर्घ्यपाद्यादिभिस्सर्वैरुपचारैः प्रतोषितः । सुखोपविष्टस्तान् प्रेक्ष्य सर्वत्र कुशलं मुनिः ॥
For Private and Personal Use Only