________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
1758
A DESCRIPTIVE CATALOGUE OF
अर्थे प्रोक्ता राजधर्मास्सप्तव्यसननिन्दनम् । सत्समावर्णनञ्चैव दुस्सभाया विनिन्दनम् ।। विश्वासघातके निन्दा निजव(भ)क्तेष्ववञ्चनम् । अशाद(काल)कृतकायस्य हानिर्भातस्य लक्षणम् ।। ऋणसंबन्धकथनं पुरोपकरणक्रमम् । कूटसाक्ष्यप्रयोगञ्च प्रार्थनादोषभाषणम् ।। स्वाश्रयस्य परित्यागं कृतघ्नस्य च दूषणम् । आशानिन्दाप्रकथनम् असमीक्षितकारिता ।। तत्रादौ सम्प्रवक्ष्यामि राजधर्म द्विजोत्तमाः । इदमेव पुराणाक्षीन्मनुमत्स्याकृति हरिम् ।।
End:
तस्मात्कार्यमकर्तव्यमसमीक्ष्य विशारदैः ।
असमीक्ष्य तु कारी तु नरः श्रेयो न विन्दति ॥ Colophon: इत्यर्थस्कन्धे महाभारते असमीक्ष्यकारिनिन्दा नाम त्रयोविंशोऽध्यायः ॥ (पुरुषार्थसुधानिधौ कामस्कन्धः)
श्रीसूतः-- अर्थस्कन्धस्समाख्यातः कामस्कन्धोऽद्य उच्यते । कामस्कन्धे तु संप्रोक्तो लक्षणस्त्रीपरिग्रहः ।। सत्सौन्दर्यप्रशंसोक्तिररिषड्वर्गदूषणम् । अन्यासक्ताङ्गनासङ्गदूषणं कन्यकातपः ।। कन्यकादूषणे दोषो ब्रह्महत्याविनिन्दनम् । अहङ्कारतिरस्कारः पुष्पापचयनिन्दनम् ॥
For Private and Personal Use Only