________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
1752
A DESCRIPTIVE CATÁLOGUE OD
सदसत्खनजफलं गृहस्थाश्रमलक्षणम् । वानप्रस्थयतीनान्तु द्वाविंशे लक्षणं स्मृतम् ॥ ११ ॥ त्रयोविंशे ज्ञानकाण्डं द्वैताद्वैतम(त)स्थितिः । मुक्तिभेदश्चतुर्विशे प्रोक्तस्सङ्करनिर्णयः ॥ १२ ॥ पञ्चविंशे तु नारीणां पातिव्रत्यस्य लक्षणम् । पुत्रोत्पत्तिनिदानञ्च तथा सत्पुत्रलक्षणम् ॥ १३ ॥ षड्विंशे पुत्रकृत्यश्च प्रायश्चित्तनिरूपणम् । पितृतच्छ्राद्धतल्लोकास्सप्तविंशे तु देवताः ॥ १४ ॥ दानानां वैभवञ्चोक्तमष्टाविंशे च वर्णितम् । दशावतारमहिमाप्येकोनत्रिंशके हरेः ॥ १५ ॥ नारायणस्य विभवस्तोत्रं लक्ष्मीविकुण्ठयोः । त्रिंशे त्रिपुरसंहारः कल्याणं गिरिजेशयोः ॥ १६ ॥ अविमुक्तिस्थलाख्यस्य काशीक्षेत्रस्य वैभवम् । गङ्गाया वैभवञ्चैव विश्वनाथस्य वैभवम् ॥ १७ ॥ शिवस्योत्कर्षनिष्कर्षः ग्रन्थस्यास्य फलश्रुतिः । इयतीहपुराणार्थपद्धतिर्विष्णुनोदिता ॥ १८ ॥
त्वत्तोऽहं श्रोतुमिच्छामि सर्वधर्मान् ततोऽधिकान् । प्रपञ्चसृष्टिं जातीनां भेदं वर्णाश्रमोदितम् ॥ १ ॥ धर्मश्च वद यच्चान्यत् अज्ञातञ्च तथा वद । त्वद्वागमृतपानेन मच्छ्रोत्रं तुष्टिमाप्नुयात् ॥ २ ॥ इदमेव वरं मेऽद्य दातुमर्हसि मत्रिय । तच्छ्रुत्वा प्रावदद्विष्णुः तथा वक्ष्ये शृणु प्रिये ॥ ३ ॥
For Private and Personal Use Only