________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
THE SANSKRIT MANUSCRIPTS.
तत्त्वत्रिमूर्तिभेदश्च प्रथमे तदनन्तरे || लोकसृष्टिर्लोकजनाः स्वाराज्यं जातिरूपणम् । पिशाचमेघजन्तूनां भूसृष्टिञ्च (श्च) निगद्यते ॥ तृतीये सप्त पातालाशेषलोकाश्च नारकाः । तद्वासिदु खं तत्पापशेषरोगाश्च तद्भिदा || तन्निस्तु (ष्कृ) तिक्रमचैव तुरीये भुवनोच्छ्रयः ॥ १ ॥ भूम्यस्थ (ण्ड) विस्तृतिश्चैव जम्बूदी ( ही ) पं च पचमे । तत्रत्यनिम्नगाभूभृद्देशविष्णुशिवालयाः || २ || षष्ठेऽर्कतारागतयः चन्द्रोत्पत्युपरागकौ । कालस्सर्वजनायुश्च सप्तमे दिननिर्णयः ॥ ३ ॥ देवः पित्र्यस्तथालभ्ययोगस्तद्द (द्दे) बताबलिः | अष्टमे मानसी सिद्धिः शूद्रवैश्योक्तकर्म च ॥ ४ ॥
नवमे क्षत्रियोत्पत्तिः सामुद्रिकविलोकनम् । दशमे जातकफलं नीतिरेकादशे स्मृता ॥ ५ ॥ द्वादशे रत्नजातिश्च तेषानिघस ( निकष ) निर्णयः । त्रयोदशे गजाश्वादिलक्षणञ्चाप्यलक्षणम् ॥ ६ ॥ चतुर्दशे यागभेदास्स्मार्ताग्नेरपि वैभृतः (भवः) । (तथा) पञ्चदशे दिव्यवह्नेर्यजनतत्फले ॥ ७ ॥ षोडशे विप्रमहिमा चतुष्षष्टिकलाभिधा । तथाह्निकं सप्तदशे कपिलामहिमापि च ॥ ८ ॥
अष्टादशे देवपूजासालग्रामपरीक्षणम् । शिवलिङ्गपरीक्षा च पूजाया वैभवन्तथा || ९ ||
एकोनविंशे त्वातिथ्यं विंशे भोजनवैभवम् । स्त्रीसङ्गमप्रकारश्च रूपितो कविंशके ॥ १० ॥
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
1751