________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SANSKRIT MANUSCRIPTS.
1607
गोरक्षणाय शरणागतरक्षणाय त्राणाय भूमिमरुताङ्कलरक्षणाय । , प्राणान्त्यजन्ति च निजान् मधुरांज(रान् ज)ना य(ये) तेषां हरिर्दिशति दिव्यपदं मनोज्ञम् ।।
गुरुस्तुतिःश्रीमद्गौतमगोत्रपङ्कजवने हासक्रियाभास्करं वेदव्याकरणादिशास्त्रविलसन्नक्षत्रमाभास्करम् । शिष्यत्तानमहान्तरायतिमिरव्याघातमाभास्कर वन्दे वैश्यकुलैकसद्गुरुमहं श्रीदीपितं भास्करम् ॥ कल्यादिवत्सरगणे गजाक्षरसदोमिते । प्रभवास्त(ब्दे)तपश्शुक्ल द्वितीयागुरुवासरे ।। अमिप्रवेशस्थूलाद्रौ वैश्या मुक्तिपदं ययुः । स्वमातृपितृनामाङ्कान् तटाकांश्च शिवालयान् ।। संस्थाप्य पुत्रपौत्राद्या धनधान्यसमन्विताः । वर्धन्ते दानधर्मज्ञाः शतगोत्रविवर्धनाः ।। यः शृणोति कथामेनां तन्नरो लभते सुखम् । जामदमिर्वीतहव्यो वैन्यो गृत्स्नो मदाह्वयः । वायव्यो गौतमाख्यश्च भरद्वाजः . . . . ॥ अत्रिविश्वामित्रनाम वसिष्ठः कश्यपाह्वयः । अगस्त्यश्चेति मुनयो अ(ह्य)ष्टादश गणास्स्मृताः ॥ गोत्रजा कणजा कन्या कामतः परिहारिणीम् । प्रजामुत्पाद्य दश्शा(तच्छा)न्तिगुरुतल्पकततम् ॥ चण्डालेषु व्रजाक्षिप्ते व्रतं प्राणान्तिकं त्यजेत् । निन्दाहोमस्तु सर्वत्र मातृभावे यथा भवेत् ॥
For Private and Personal Use Only