________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
1388
THË SANSKRIT MANUSCRIPTS. अद्वैतामृतवर्षिणी भगवतीमष्टादशाध्यीयिनीमम्ब त्वामनुसन्दधामि भगवद्गीते भवद्वेषिणीम् ।। धृतराष्ट्र उवाच :
१. धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः ।
मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय ।। सञ्जय उवाचः-- २. दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा ।
आचार्यमुपसङ्गम्य राजा वचनमब्रवीत् ।। ३. पश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूम् । व्यूढां (ट्ठ)पदपुत्रेण तव शिष्येण धीमता ॥
*
सञ्जय उवाच:-- ९. एवमुक्त्वा हृषीकेशं गुडाकेशः परन्तपः ।
न योत्स्य इति गोविन्दमुक्त्वा तूष्णीं बभूव ह ॥ १०. तमुवाच हृषीकेशः प्रहसन्निव भारत ।
सेनयोरुभयोर्मध्ये विषीदन्तमिदं वचः ।।
श्रीभगवानुवाच :-- (व्या.)
नारायणः परोऽव्यक्तादण्डमव्यक्तसम्भवम् ।
अण्डस्यान्तस्त्विमे लोकारसप्तद्वीपा च मेदिनी ।। स भगवान् सृष्टेदं जगत्तस्य च स्थितिं चिकीर्षुर्मरीच्यादीनने सृष्टा प्रजापतीन् प्रवृत्तिलक्षणं धर्म ग्राहयामास वेदोक्तम् । ततोऽन्यांश्च
For Private and Personal Use Only