________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
1384
Á DESCRIPTIVE CATALOGUE OF सनकसनन्दनादीनुत्पाद्य निवृत्तिधर्म ज्ञानवैराग्यलक्षणं ग्राहयामास । सः द्विविधो हि वेदोक्तधर्म :--प्रवृत्तिलक्षणो निवृत्तिलक्षणश्च। जगस्थितिकारणं प्राणिनामभ्युदयनिश्श्रेयसहेतुर्यस्स धर्मो ब्राह्मणाद्यैर्वणिभिराश्रमिभिश्चानुष्ठीयमानो दीर्पण कालेनानुष्ठातॄणां कामोद्भवाद्धीयमानविज्ञानहेतुकेनाधर्मेणाभिभूयमाने धर्मे, प्रवर्धमाने चाधर्मे जगत्स्थिति परि(पि)पालयिषुस्स आदिकर्ता नारायणाख्यो विष्णुः भौमस्य ब्रह्मणो ब्राह्मणत्वस्याभिरक्षणाय देवक्यां वसुदेवादशेन किल सम्बभूव । ब्राह्मणत्वस्य हि रक्षणे रक्षितस्स्याद्वैदिको धर्मः ; तदधीनत्वात् वर्णाश्रमभेदानाम् । स च भगवान् ज्ञानैश्चर्यशक्तिबलवीर्यतेजोभिस्सदा सम्पन्नस्त्रिगुणात्मिकां वैष्णवी खां मायां प्रकृति वशीकृत्याजोऽव्ययो भूतानामीश्वरोऽपि नित्यशुद्धबुद्धमुक्तस्वभावोऽपि सन् स्वमायया देहवानिव जात इव लोकानुग्रहं कुर्वन् लक्ष्यते। स्वप्रयोजनाभावेऽपि भूतानुजिघृक्षया वैदिकं धर्मद्वयमर्जुनाय शोकमोहमहोदधौ निमनायोपदिदेश । गुणाधिकैर्गृहीतोऽनुष्ठीयमानश्च धर्मः प्रचयं गमिष्यतीति तं धर्म भगवता यथोपदिष्टं भगवान् वेदव्यासः सर्वज्ञो गीताख्यैस्सप्तभिः श्लोकशतैरुपनिबबन्ध । तदिदं गीताशास्त्रं समस्तवेदार्थतत्त्वसङ्ग्रहभूतं दुर्विज्ञेयार्थ तदर्थाविष्करणायानेकैर्विवतपदार्थवाक्यार्थन्यायमप्यत्यन्ताविरुद्धानेकार्थत्वेन लौकिकैगुह्यमाणमुपलभ्याहं विवेकतो.ऽर्थनिर्धारणार्थ सङ्केपतो विवरण करिष्यामि । End :
पाण्डवानां पक्षे श्रीः विजयः परः, तथैव भूतिः श्रियो विशेषः । धृ(ध्रु)वा अव्यभिचारिणी। नीतिरित्येवं मतिर्ममेति ।। Colophon: ___ इति श्रीगोविन्दभगवत्पूज्यपादशिष्यपरमहंसपरिव्राजकाचार्यश्रीशङ्करभगवत्पादकृतौ श्रीभगवद्गीताभाष्ये अष्टादशोऽध्यायः ॥
For Private and Personal Use Only