________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
1382 A DESCRIPTIVE CATALOGUE ON
वाचकः प्रणवो यस्य क्रीडावस्त्वखिलं जगत् । श्रुतिराज्ञा वपुर्ज्ञानी(नं) तं वन्दे देवकीसुतम् ।। सारथ्यमर्जुनस्याजौ कुर्वन्गीतामृतं ददौ । लोकत्रयोपकाराय तस्मै कृष्णात्मने नमः ॥ वन्दे कृष्णार्जुनौ वीरौ नरनारायणावुभौ ।
धृतराष्ट्रकुलोन्मत्तगजारोहणवल्लभौ ॥ करकलितनिदर्शितात्ममुद्रः परिकलितोन्नतबर्हिबर्हचूडः । इतरकरगृहीतयोक्त्रतोत्रो मम हृदि सन्निधिमातनोतु शौरिः ।। प्रालम्बसूत्रेण सहार्वसूत्रं यस्तोत्रमुद्रां करपल्लवेन । प्रदर्शयन्नाह पता(दार्थतत्त्वं पार्थाय तत्सारथये नमोऽस्तु ।।
अचतुर्वदनो ब्रह्मा द्विबाहुरपरो हरिः ।। अफाललोचनश्शम्भुभगवान् बादरायणः । मुनि स्निग्धाम्बुदाभासं वेदावासमकल्मषम् ।
वेदावासं सरस्वत्यावासं व्यासं नमाम्यहम् ।। तं वेदशास्त्रपरिनिष्ठितशुद्धबुद्धिं चर्माम्बरं शिवविरिञ्चिनुतं वरेण्यम् । कृष्णत्विषं कनकपिङ्गजटाकलापं व्यासं नमामि शिरसा तिलकं मुनीनाम् ।।
पाराशर्यवचरसरोजममलं गीतार्थगन्धोत्कटं नानाख्यानककेसरं हरिकथासम्बोधनाबोधितम् । लोके सज्जनषट्पदैरहरहः पेपयिमानं मुदा भूयाद्भारतपङ्कजं कलिमलप्रध्वंसि नः श्रेयसे । पार्थाय प्रतिपादितां भगवता नारायणेन स्वयं व्यासेन ग्रथितां पुराणमुनिना मध्येमहाभारतम् ।
For Private and Personal Use Only